पृष्ठम्:अलङ्कारमणिहारः.pdf/२२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
219
उत्प्रेक्षासरः(१४)

इति लाञ्छननाम । अञ्चसि पूजयसि आद्रियसे । पूजनं चात्र--'स च पूज्यो यथा ह्यहम् । पूज्या लालयितव्याश्च’ इत्यादाविवादरणपरम् । पक्षे प्राप्नोषीत्यर्थः । अत्र श्रीवत्सनामलाञ्छनस्य रमाश्रयभूतहृदयस्थलाधिकरणकाञ्चने लक्ष्मीवत्सताप्रयुक्तं वात्सल्यं न हेतुरित्यहेतोस्तस्यासिद्धस्य हेतुतासंभावना असिद्धविषया हेतूत्प्रेक्षा श्लेषोज्जीविता ॥

 यथा वा--

 भजति भुजगेशनगपतियुवतिमणीरुचिकचाकचिजितेव । विद्युन्मुखे विकारं तान्तत्वं च द्युमध्यनीलात्वम् ॥ ३८१ ॥

 भुजगेशनगपतियुवतिमणी लक्ष्मीः तस्याः रुच्या प्रभया कचाकचिजितेव केशेषु केशेषु गृहीत्वा प्रवृत्तेन युद्धेन परास्तेव विद्युत् मुखे वदने विकारं पराभूतत्वचिह्नं वैवर्ण्यं तान्तत्वं ग्लानिं द्युमध्ये यत्रक्वापि गहराभ्यन्तरान्तरिक्षमध्ये लीनत्वं अदृश्यतयाऽवस्थानं च भजति । द्युमध्येत्यत्र वकारान्तस्य द्युशब्दस्य ‘दिव उत्' इत्युत्वम् । यद्वा द्यु इत्यव्ययं गगनवाचि । ‘यु क्लीबमह्नि गगने च' इति मेदिन्यनुशासनात् ॥

 वास्तवार्थस्तु--मुखे आदौ विकारं वि इत्याकारकमक्षरं तान्तत्वं तकारान्तत्वं द्युः द्यु इति वर्णसमुदयः मध्ये वि त् इत्यनयोर्वर्णयोरन्तराळे लीनः स्थितः यस्यास्सा तस्याः भावः द्युमध्यलीनात्वम् । विद्युत्पदे मुखविकारवत्त्वतान्तत्वद्युमध्यलीनात्वानि द्रष्टव्यानि । द्युमध्यलीनाशब्दस्य समस्तत्वेनागुणवचनत्वात् ‘त्वतलोर्गुणवच स्य’ इति न पुंवद्भावः । अत्र संज्ञाजा-