पृष्ठम्:अलङ्कारमणिहारः.pdf/२२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
217
उत्प्रेक्षासरः(१४)

अन्यत् स्वसाध्यक्रियापेक्षया इतरत् व्यपेक्षितुं आकाङ्क्षितुं साधयितुमिति यावत् नालं न समर्थः । यथा कस्यचिदधीनो नान्यस्य शक्नुयात्साधयितुं कार्यं तथा एकस्याः क्रियाया विशेषणत्वेनाधीनः कर्ताऽन्यस्योपमानरूपस्य विशेषणतां नाप्तुमीष्टे, इतरविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वेनान्वयायोगात् । अतो नात्र कर्तुरुपमानत्वं संगच्छत इति । तथाच इवशब्दार्थस्संभावनं सादृश्यं वाऽस्तु, उभयथाऽपि न तत्र कर्तुरन्वय इति नोपमा युक्तेति । तस्मात्तमसि लेपनकर्तृत्वमुत्प्रेक्ष्यमिति मतमनुपादेयमेव । तस्यापि कर्तुर्विशेषणत्वात् । विवक्षितविवेकेन लेपनस्यैवोत्प्रेक्षणीयत्वाच्च । एवंचोदाहृतपद्ये प्रधानभूताभिषेचनाञ्जनक्रियागोचरा संभावनैव निगीर्णानन्दनविषयेति सिद्धम्। न च युगपद्वृत्तिद्वयविरोधदोषता, तदनभ्युपगमात् । ये तु'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः’ इत्यत्र तमोनभसोर्विषययोस्तत्कर्तृकलेपनवर्षणस्वरूपधर्मोत्प्रेक्षेत्याहुः, तन्मते स्वरूपोत्प्रेक्षायां धर्म्युत्प्रेक्षा धर्मोत्प्रेक्षा चेत्येवं द्वैविध्यम् । तत्र तमोनभसोः कर्तृत्वेन विषयत्वेन च द्विवारमन्वयक्लेशः । तथा धर्म्युत्प्रेक्षा, साधर्म्यप्रयुक्ता धर्मोत्प्रेक्षा तु तत्सहचरितधर्मसंबन्धप्रयुक्तेति लक्षणाननुगमः । न च तन्निष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेशान्नाननुगम इति वाच्यम् । सर्वत्र सादृश्यनिमित्ताया एवोत्प्रेक्षायास्संभवेनान्यतरत्वादिनिवेशप्रयुक्तगौरवस्यानुपादेयत्वादिति वदन्ति ॥

 यथा वा--

 श्रुत्यञ्चलसंसक्ता मुक्ताश्श्रुत्यन्तचपलमक्षियुगम् । अवलोक्य भुवनमातस्तव देवि भृशं हसन्तीव ॥ ३७८ ॥

 ALANKARA
28