पृष्ठम्:अलङ्कारमणिहारः.pdf/२२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
216
अलंकारमणिहारे

वप्रधानमाख्यातम्’ इति यास्कस्मरणात् भावो धात्वर्थः प्रधानं विशेष्यं यस्य तदाख्यातमित्यर्थकाद्धात्वर्थभूताभिषेचनाञ्जनक्रिययोरेव विशेष्यतया तदुपसर्जनत्वेनान्वितस्य कर्तुरुत्प्रेक्षाविषयतया इवादिशब्दार्थभूतसंभावनायामन्वयासंभवात् । एवमाख्यातस्य क्रियोपर्सजनत्वादेव--

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणान्वितम् ॥
केषांचिदुपमाभ्रान्तिरिवश्रुत्येह जायते ।
नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम् ॥

इत्यादिना उत्प्रेक्षास्थले ‘लिम्पतीव’ इत्यत्रोपमाभ्रान्तिं केषांचित्संभवन्तीं प्रतिक्षिपता दण्डिना--

कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे ।
स्वक्रियासाधनव्यग्रो नालमन्यद्व्यपेक्षितुम् ॥

इति कर्तुरुपमायामुपमानतयाऽन्वयोऽपि निराकृतः । तथाहि कारिकार्थः 'लिम्पतीव' इत्यत्र लेपनकर्तुरिवशब्दार्थे सादृश्ये उपमानत्वेनान्वयसंभवादुपमैवात्र किं न स्यादित्याशङ्काया उत्तरत्वेनायं श्लोकोऽवतारितः । कर्ता यद्युपमानं स्यात्तदेयं शङ्का युज्येत, न चेदं संभवति, तत्र हेतुः न्यग्भूत इत्यादिः । असौ कर्ता क्रियापदे तिङन्ते न्यग्भूतः क्रियोपसर्जनीभूत इत्यर्थः ।

फलव्यापारयोर्धातुराश्रये तु तिङस्स्मृताः ।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥

इत्युक्तेः । न्यग्भूततामेवोत्तरार्धेनोपपादयति-- स्वेति । स्वक्रियायाः लेपनादिरूपायाः साधने व्यग्रः व्यापृतः असौ कर्ता