पृष्ठम्:अलङ्कारमणिहारः.pdf/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
215
उत्प्रेक्षासरः(१४)

 अनुक्तविषया वस्तूत्प्रेक्षा यथा--

 अभिषिञ्चतीव मामयमहिराजधराधराधिपतिरमृतैः । दयनीयस्य ममालं नयने दिव्याञ्जनैरनक्तीव ॥ ३७७ ॥

 अत्राप्यायकत्वादिना निमित्तेन गम्यमानेन भगवत्कर्तृकानन्दनस्य तत्कर्तृकामृताभिषेकतादात्म्योत्प्रेक्षा दिव्याञ्जनाञ्जनतादात्म्योप्रेक्षा चानुक्तविषया स्वरूपोत्प्रेक्षा, आख्यातोपस्थिते कर्तरि भगवतस्तादात्म्येनान्वये कर्तुर्धात्वर्थे अभिषेचने अञ्जने चान्वयात् तस्य इवशब्दार्थे संभावने तस्य च विषयतया आनन्दने अन्वयाद्भगवत्कर्तृकाभिषेचनाञ्जनसंभावनाविषय आनन्दनमिति वाक्यार्थबोधपर्यवसानात् उभयत्रापि विषयभूतस्यानन्दनस्य विषयिवाचकाभ्यामभिषिञ्चत्यनक्तिभ्यामन्येनानुपादानाच्च ॥

 नन्वत्र अभिषिञ्चत्यनक्तीति धात्वर्थयोरभिषेचनाञ्जनयोराख्यातोपात्ते कर्तरि विशेषणत्वेनान्वयमभ्युपेत्य कर्तुरिवशब्दार्थे संभावनेऽन्वयेन अभिषेचनाञ्जनकर्तृतादात्म्यमेवोत्प्रेक्ष्यताम् । ततश्च भगवतो विषयस्योपादानेन उक्तविषयतालाभात् भगवतः प्रथमान्तपदोपस्थापितस्य मुख्यविशेष्यतया प्रथमान्तविशेष्यकबोधोऽपि तान्त्रिकसंप्रतिपन्न उपपादितो भवतीत्युत्प्रेक्षाद्वयमुक्तविषयमेवास्तु । सकृदुच्चरिताभ्यामभिषिञ्चत्यनक्तिभ्यां शक्त्या अभिषेकाञ्जनयोः साध्यवसानलक्षणया साधारणधर्मपुरस्कारेणानन्दनस्य चोपस्थापनाया युगपद्वृत्तिद्वयविरोधेनासंभवादिति चेन्मैवं, 'लः र्कमणि च' इति सूत्रानुसारेणाख्यातस्य कर्त्रादिशक्ततया प्रकृते अभिषिञ्चत्यनक्तीत्याभ्यामाख्याताभ्यां कर्तुरुपस्थितावपि 'भा-