पृष्ठम्:अलङ्कारमणिहारः.pdf/२२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
214
अलंकारमणिहारे

इयमेव स्वरूपोत्प्रेक्षा । अहेतोर्हेतुभावेन अफलस्य फलत्वेनोत्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षेत्युच्यते । तत्राद्या स्वरूपोत्प्रेक्षा उक्तानुक्तास्पदत्वेन द्विविधा । आस्पदं विषयः । उक्तविषया अनुक्तविषया चेति द्विविधेत्यर्थः । हेतूत्प्रेक्षाफलोत्प्रेक्षे सिद्धविषया असिद्धविषया चेति प्रत्येकं द्विविधे ॥

 क्रमेणोदाहरणानि--

 हरिशेखरितादहिपतिधरणिधरादधिकतां परां लिप्सुः । हरिशिरसि भासमानस्सुरगिरिशिशुरिव महाकिरीटोऽव्यात् ॥ ३७५ ॥

 अत्र कनकमणिमयत्वादिना धर्मसंबन्धेन निमित्तेन महाकिरीटस्य सुमेरुशिशुतादात्म्यसंभावना स्वरूपोत्प्रेक्षा महाकिरीटस्य विषयस्योपादानादुक्तविषया ॥

 यथा वा--

 विसृमरनिजरुचिभरपरिवलयिततनुरहिगिरीन्द्रपतिदयिता । प्रकटयतीव हिरण्यप्राकारात्वं स्वमागमप्रोक्तम् ॥ ३७६ ॥

 अत्र पिशङ्गत्वादिना गम्यमानेन निमित्तेन लक्ष्मीतनुरुचिवलयस्य हिरण्यप्राकारतादात्म्यसंभावना । वस्तुतस्तु प्रकटनक्रियोत्प्रेक्षाया एवात्र प्राधान्येन निर्दिष्टत्वाद्वक्ष्यमाणरीत्या क्रियास्वरूपोत्प्रेक्षाया एवेदमुदाहरणं भविष्यतीति ध्येयम् । अन्यत्तु अग्रे निरूपयिष्यते । अत्र ‘हिरण्यप्राकारामार्द्राम्’ इति श्रुत्यर्थोऽनुसंहितः ॥