पृष्ठम्:अलङ्कारमणिहारः.pdf/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
206
अलंकारमणिहारे

प्रभृतिगुरुजनसंनिधौ प्रमादतः अनवधानात् गदितं आत्मनोक्तं वचनं बाल्यं बालकर्म बालैः क्रियमाणोऽनभिसंधिकव्यापार इत्यर्थः । अयन्त्रणं यथेष्टं बालव्यापारे इदमेवंकर्तव्यमिदमेवं नेति निर्बन्धो न शक्यः कर्तुमिति भावः । इति पूरयति स्म । अनतिचिरानुभूतनन्दनन्दनस्वच्छन्दोपभोगरसायनाविरतास्वादैकतानान्तरङ्गया कयाचिद्व्रजललनया तेनैव संस्कारेण प्रमादवशाद्गुरुजनसंनिधौ स्वैरं व्यहरावेति गदितस्य वृत्तान्तस्य बाल्यावस्थागतश्रीकृष्णसहकृतधूळीकेळिप्रभृतिवृत्तन्तपरत्वं बाल्यमयन्त्रणमिति शेषपूरणेन स्फुटीकृतम् । पूर्वोदाहरणे स्वप्नावस्थाभेदेन योजना । अत्र तु बाल्यावस्थाभेदेनेति विशेषः ॥

 यथा वा--

 सरजस्कां स्नातामथ शौरिर्मामाह्वयत्समं भोक्तुम् । इत्यवशादुक्त्वैका बाल्ये मैत्री ह्यकृत्रिमेत्यगदीत् ॥ ३६० ॥

 अत्र ऋतुस्नातस्वकर्मकोपभोगफलकशौरिकृताह्वानरूपं वाक्यार्थं तथ्यभूतं गुरुजननिकटे प्रमादादुदीर्य तावतैव प्रबुद्धया बाल्ये मैत्री ह्यकृत्रिमेति वदन्त्या कयाचन विदग्धया नायिकया बाल्यनिर्वर्तितधूळीकेळीधूसरितत्वनिमित्तकस्नानकर्तृस्वकर्मकसहभोजनक्रियाफलकतादात्विकशौरिकृताह्वानरूपतया स एवान्यथा योजितः । अत्राप्यवस्थाभेदेन योजना पूर्ववदेव । श्लेषोपस्कृतत्वं तु विशेषः । तात्त्विकार्थपक्षे शौरिः रजसा आर्तवेन सह वर्तत इति सरजस्का तां, अन्यत्र सधूळिकाम् । अथ आर्तवानन्तरं धूळीलेपानन्तरं च । स्नातां मां समं परस्परानुरूपं