पृष्ठम्:अलङ्कारमणिहारः.pdf/२१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
204
अलंकारमणिहारे

विलासवृत्तान्तवर्णनम् । किं शौरिस्त्वामिति तटस्थायाः प्रश्नः । कुमुदिनीमिन्दुरिति नायिकायास्तथ्यनिह्नवोत्तरम् ॥

 शब्दार्थोभययोजनया यथा--

 व्रणयत्यधरं वपुषो वेपथुकुन्मम विशेषतोऽधिनिशम् । आरादसौ हिमानी शौरिः किं न सखि हिमततिर्महती ॥ ३५६ ॥

 असौ हिमानीत्यत्र शब्दयोज़नया निह्नवः अन्यत्रार्थयोजनयेति ध्येयम् । तथ्यार्थे हि मानी इति पदच्छेदः, निह्नवपक्षे हिमानीत्येकं पदम् । असावित्येतत्पुंस्त्रीलिङ्गसाधारणम् । अत्रासौ हि मानीति शौरिपरतया पुंलिङ्गेन निर्दिष्टस्य शब्दस्यैव असौ हिमानीति स्त्रीलिङ्गतया हिमानीपरतावर्णनाच्छब्दयोजनयाऽपह्नव इति । महद्धिमं हिमानी ‘हिमारण्ययोर्महत्त्वे’ इति 'इन्द्रवरुण' इति सूत्रप्राप्त आनुगागमसन्नियोगशिष्टो ङीष् नियम्यते ॥

 यथा वा--

 एहि सखि सत्यभामे रुक्मिणि दयिता त्वमिति हठादुक्ते । रुष्टां राधां तत्परमारचयंस्तत्प्रसादयति शौरिः ॥ ३५७ ॥

 राधापरत्वे हे सति ! साध्वि ! हे अभामे! अकोपने! हे रुक्मिणि! रुक्ममस्या अस्तीति तथोक्ते! सुवर्णाभरणवतीत्यर्थः । हे सखि! त्वमेव मे दयितेति योजना । तत् स्वोक्तं वचनं तत्परं राधापरं आरचयन् । सत्यभामे रुक्मिणीत्यत्र शब्दयोजनया सखि दयितेत्यत्रार्थयोजनयाऽपह्नव इति द्रष्टव्यम् ॥