पृष्ठम्:अलङ्कारमणिहारः.pdf/२०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
203
अपह्नुतिसरः‍‍(१३)

मपि सुभगेऽहम् । किं शौरिहृदि न हीमां बहुधा संबाोध्य शयनसुखमवदम् ॥ ३५४ ॥

 हारिणि मुक्ताहारवति सुभगे सुन्दरे प्रियस्य भगवतो नन्दनन्दनस्य हृदये वक्षसि । पक्षे—-हे हारिणि मनोहरे! हे प्रियहृदये! प्रियं हृदयं चित्तं यस्यास्सा मत्प्रियकारिणीति यावत् । हे सुभगे! सौभाग्यशालिनीति सख्यास्संबुद्धयः । किं शौरिरिति तटस्थायाः प्रश्नः । न हीत्यादिकं तथ्यनिह्नवोत्तरं नायिकायाः । अत्रापि प्रियहृदये इत्यादीनामर्थभेदेऽपि शब्दश्लेषमात्रेणान्यथायोजनया तथ्यनिह्नवः । न विवेदेति सुखपारवश्यकृतः परोक्षनिर्देशः । ‘बहु जगद’ इत्यादिवत् ॥

 एवम्--

 निशि तमसि निमीलन्तीं स्वकरेण हृदि स्पृशा समुन्निद्राम्। भृशमुदितस्समतानीत्किं शौरिस्त्वां न कुमुदिनीमिन्दुः ॥ ३५५ ॥

 इत्यत्रापि शब्दयोजनया तथ्यनिह्नवो ज्ञेयः । निशि रात्रौ तमसि तिमिरे निमीलन्तीं सुप्तां निमीलितकुमुदां च । हृदिस्पृशा वक्षसि स्पृशता, पक्षे--मनोहरेण विकासकेनेति वा । 'हृद्युभ्यां च' इति सप्तम्या अलुक् । स्वेन निजेन करेण हस्तेन किरणेन च । जातावेकवचनम् । भृशमुदितः अतिवेलप्रहृष्टस्सन्, पक्षे—भृशं उदित इति छेदः उदयं प्राप्तस्सन् । भृशमित्येतत् उन्निद्रामित्यनेनान्वेति । उन्निद्रां निद्राया डद्गतां त्यक्तनिद्रामित्यर्थः । पक्षे--विकसितां ‘तथा पुष्पितमुन्निद्रम्' इत्यमरः । समतानीदिति नर्मसखीं प्रति नायिकाया निशि स्वप्रियविरचित-