पृष्ठम्:अलङ्कारमणिहारः.pdf/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
202
अलंकारमणिहारे

हरणद्वयम् । वस्तुतस्तु द्वितीयमुदाहरणं वक्ष्यमाणरीत्या शब्दार्थोभययोजनयाऽपह्नुतेरेवोदाहरणं भविष्यति ॥

 अर्थयोजनया निह्नुतिर्नाम विवक्षिताविवक्षितसाधारणस्यार्थस्याविवक्षितार्थसंबन्धित्ववर्णनया तस्यापलापः । शब्दयोजनया सा तु शब्दश्लेषमात्रेण तत्संबन्धित्ववर्णनयाऽपलापः ॥

 यथा--

 कमले विपुले नयने ध्यायामि तवाहमिति हठाद्गदिते । कुपितायां नीलायां तत्परतां तस्य वर्णयति शौरिः ॥ ३५३ ॥

 अत्र कमले विपुले इत्यनयोरर्थभेदेऽपि शब्दश्लेषमात्रेणान्यथा योजनया तत्थ्यनिह्नवः । हे कमले ! लक्ष्मि ! विपुले विशाले तव नयने ध्यायामीति वा, हे विपुले ! धरणि ! तव नयने कमलसदृशी ध्यायामीति वा प्रत्येकं संबध्यते । नीलापरत्वे तु हे नीले ! इति संबुद्धिरर्थाल्लभ्यते । तदा तव नयने कमले विपुले च ध्यायामीति योजना । अत्र रमाभूमिसंबोध्यकस्तन्नयनध्यानरूपो न वाक्यार्थः किंतु त्वत्संबोध्यकः कमलरूपविपुलत्वन्नयनध्यानरूप इत्यपह्नवस्तत्परतां तस्य कल्पयति शौरिरित्यनेन प्रकाश्यते । तस्य उक्तवचनस्येत्यर्थः । न चात्र लक्ष्मीभूमीनीलासाधारण्यमर्थस्य, अपि तु कमले विपुले इति लिङ्गवचनश्लिष्टशब्दयोजनैवेति ॥

 यथा वा--

 प्रियहृदये हारिणि निशि सुप्ता न विवेद कि-