पृष्ठम्:अलङ्कारमणिहारः.pdf/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
201
अपह्नुतिसरः‍‍(१३)

 इति व्याजोक्तावतिप्रसङ्गवारणायाद्यं विशेषणम् । यद्वक्ष्यते-'छेकापह्नुतेरस्याश्चायं विशेषः--यत्तत्र वचनस्यान्यथानयनेनापह्नवः अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनम्' इति ॥

 उदाहरणम्--

 नीलरुचिर्मम चित्ते खेलति सततं किमञ्जनाद्रीशः । न हि न हि सुरवरमणिरिति चतुरा पद्मावती सखीमाह ॥ ३५१ ॥

 अत्र पद्मावत्या नर्मसखीं प्रति नीलरुचिर्मम हृदये खेलतीति स्वप्रियतमश्रीनिवासवृत्तान्ते निवेद्यमाने तन्निशमय्य किमञ्जनाद्रीश इति शङ्कितवतीमन्यां प्रति न हि न हि सुरवरमणिरिति सत्यस्यैवापह्नवः ॥

 यथा वा--

 अभिमुखमेत्याभिमृशन्नमृततुषारेण मां सखिकरेण । अधिनिशमजीहृषदलं श्रीवत्साङ्कः किमाळि न मृगाङ्कः ॥ ३५२ ॥

 अमृतेन अमृतमिव च तुषारश्शीतलः तेन करेण किरणेन हस्तेन च अधिनिशं रात्रौ अजीहृषत् हर्षयति स्म ।

हृषेर्ण्यन्तात्कर्तरि लुङि चङ् । अत्रापि कयाचिद्व्रजललनया क्रीडासखीं प्रति अभिमुखमेत्येत्यादिना नन्दनन्दनोदन्ते निवेद्यमाने तदाकर्ण्य श्रीवत्साङ्कः किमिति शङ्कितवतीमन्यां प्रति न मृगाङ्क इति तथ्यस्यैवापह्नवः । इदमर्थयोजनया सत्यनिह्नुतावुदा-

 ALANKARA
26