पृष्ठम्:अलङ्कारमणिहारः.pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
198
अलंकारमणिहारे


मेयमसत्यं कृत्वा उपमाने सत्यतया यत् स्थाप्यते साऽपह्नुतिः' इति काव्यप्रकाशोक्तलक्षणबहिर्भावस्तावत् स्फुट एव । एवं ‘विषयापह्नवे वस्त्वन्तरप्रतीतावपह्नुतिः' इत्यलंकारसर्वस्वोक्तलक्षणमपि नात्र प्रवर्तते ॥

प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् ।
साम्यादपह्नुतिर्वाक्यभेदाभेदवती द्विधा ॥

इति चित्रमीमांसागतं लक्षणमपि तथैव । तस्मात् ‘नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र दृढारोपं रूपकमेव भवितुमर्हति नापह्नुतिः । उपमेयतोपमानतावच्छेदकयोस्सामानाधिकरण्यस्य निष्प्रत्यूहं भानात् । तदुक्तं विमर्शिन्याम्--'न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते’ अत्र विषस्य निषेधपूर्वकं ब्रह्मस्वे आरोप्यमाणत्वात् दृढारोपं रूपकमेव नापह्नुतिरिति” इति ॥

 तर्हि दीक्षितानां कथमिदं परस्परविप्रतिषिद्धवादित्वमितिचेच्छृणु--चित्रमीमांसालक्षणं प्राचामनुरोधेन, इदं तु रत्नाकराद्यनुरोधेनेति न विरोधः ॥


अथ भ्रान्त्यपह्नुतिः.


 भ्रान्तेर्निवारणेऽन्यस्य शङ्कायां भ्रान्त्यपह्नुतिः ॥

 अन्यस्य भ्रान्तेर्निवारणे तत्त्वाख्याने सति भ्रान्त्यपह्नुतिः । इमां भ्रान्तापह्नुतिरित्यप्याहुः । तदा भ्रान्तमिति भावे क्तः । तस्यापह्नुतिः । एवं च तत्त्वकथनहेतुकभ्रान्तिविषयनिषेधो भ्रान्त्यपह्नुतिरिति लक्षणं बोध्यम् ॥