पृष्ठम्:अलङ्कारमणिहारः.pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
197
अपह्नुतिसरः‍‍(१३)

कयोः स्त्रियाम्' इति मेदिनी । अतीतरत् तारयति स्म । तरतेर्ण्यन्ताल्लङि चङ् । सः अरुणकिरणः । एषः वेङ्कटगिरिनिलयः ॥

 यथा वा--

 नापांनिधिर्नदीनो नदीन एष श्रितो हरे यस्त्वाम् । क्षुभितस्स सर्वतो मुखभङ्गादेत्येष नैकमपि भङ्गम् ॥ ३४७ ॥

 नदीन इति नशब्देन समास । अदीनः नेत्यन्वयः, किंतु दीन एवेत्यर्थः । नदीनां इन इति वस्तुस्थितिः । भगवदाश्रित एव नदीनः अदीनः । सः अपां निधिः सर्वतोमुखभङ्गात् विश्वतोमुखात्पराजयात्, पक्षे जलतरङ्गात्, भङ्गं पराजयं ‘भङ्गो जयविपर्यये । भेदरोगतरङ्गेषु' इति मेदिनी । अत्र 'यदिह परस्तात्' इति प्राथमिकोदाहरणे रजसः परस्मिन् स्थाने परमपदत्वनिह्नवो वर्णनीये शेषाद्रौ तदारोपार्थः । अन्येषु त्रिषु सिंहळेत्यादिषु महानीलमणित्वाद्यपह्नवः प्रस्तुते भगवति तदारोपार्थः प्रथमोदाहरणे निह्नवे हेतु्र्नोक्तः द्वितीयादिषु हेतुरुक्तः । तत्रापि सिंहळेतिद्वितीयपद्ये शुद्धः, तृतीयचतुर्थपद्ययोश्श्लेषसंकीर्णः । पञ्चमे 'नापांनिधिः' इतिपद्ये समुद्रे नदीनत्वनिह्नवो भगवदाश्रितेषु प्रकृतेषु तत्समारोपार्थः । हेतूक्त्यादिकं तु पूर्ववदेव । ततश्च शुद्धापहृुतिवदत्रापि द्वैविध्यमनुसन्धेयम् । अयमपह्नुतिभेदः कुवलयानन्दानुरोधेनोक्तः । रसगङ्गाधरे तु-- "अन्यत्र तस्यारोपार्थः पर्यस्तापह्नुतिश्च सः' इत्येतदुपादाय 'नायमपह्नुतेर्भेदो वक्तुं युक्तः अपह्नुतिसामान्यलक्षणानाक्रान्तत्वात् । तथा हि-–‘प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः' उप-