पृष्ठम्:अलङ्कारमणिहारः.pdf/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
196
अलंकारमणिहारे

 यथा वा--

 सिंहळसंभूतमणिर्न महानीलो हरिर्महानीलः। नीलयति स हि स्वल्पं क्षीरं क्षीराब्धिमेव तत्स्थोऽयम् ॥ ३४४ ॥

 सः सिंहळसंभूतमणिः । अयं श्रीहरिः तत्स्थः क्षीरस्थः क्षीराब्धिमध्यस्थश्च । अत्र--

सिंहळस्याकरोद्भूता महानीलास्तु ते स्मृताः ।
क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां व्रजेत् ॥
महानील इति ख्यातं रत्नं तदतिदुर्लभम् ।

इति रत्नशास्त्रार्थोऽनुसंहितः ॥

 यथा वा--

 इन्दुर्न सतां नेता सन्नेता पन्नगाद्रिपतिरेव । सच्चक्रखेदमोदप्रदयोर्वद को भवेत्सतां नेता ॥ ३४५ ॥

 सच्चक्रस्य सत्पुरुषनिवहस्य सतश्चक्रवाकस्य च । खेदप्रद इन्दुः मोदप्रदो भगवान् ॥

 यथा वा--

 अरुणकिरणो न तरणिस्तरणिः फणिधरणिधरशरण एव । कमतीतरत्स संसृतिजलनिधिमेष तु जगन्ति तारयति ॥ ३४६ ॥

 तरणिः द्युमणिः नौश्च । 'तरणिर्द्युमणौ पुंसि कुमारीनौ-