पृष्ठम्:अलङ्कारमणिहारः.pdf/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
194
अलंकारमणिहारे

धियः । तिग्मभवातपवारणनवातपत्रं ब्रवाण्यहं तु हरे ॥ ३३९ ॥

 एवं प्रागुदाहृते ‘मणिमकुटतरणि’ इति पद्येऽपि परंपरिताऽनुसंधेया ॥

 अस्याश्च ध्वनिर्यथा--

 एषा न वैजयन्ती पुरो लसन्ती महेन्द्रचापलता । नैषाऽपि जलधिदुहिता परं तु विद्युल्लता समुन्मिषिता ॥ ३४० ॥

 अत्र नैषा वैजयन्ती अपि तु इन्द्रधनुर्वल्ली, नाप्येषा लक्ष्मीः अपि तु विद्युल्लतेति पूर्वोत्तराभ्यां द्वे अपह्नुती तावत् स्पष्टमेव निर्दिष्टे । ताभ्यां च नायं भगवान् किं तु प्रावृषेण्यघनाघन इति तृतीयापह्नुतिर्व्यञ्जनया प्राधान्येनावेद्यते । तदीयवस्तुप्रतिषेधारोपयोः तत्प्रतिषेधारोपावेदकताया न्याय्यत्वात् ॥


अथ हेत्वपह्नुतिः.


 स एवापह्नवो युक्तिपूर्वश्चेद्धेत्वपह्नुतिः ॥ ५० ॥

 यथा--

 नेयं श्रीरुरसि हरेर्न हि निवसेन्नित्यमत्र चपला सा । अपि तु हरिहृदयसौधस्थिरतरकुरुविन्ददीपरेखैव ॥ ३४१ ॥