पृष्ठम्:अलङ्कारमणिहारः.pdf/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
189
अपह्नुतिसरः (१३)

ञादिभिस्साक्षात्परमतत्वाद्युपन्यासैश्च किंचिद्व्यवधानेन प्रकृतस्य निषेधे बोध्यमाने प्रायेण वाक्यस्य भेदः। विषयासत्यत्वप्रतिपादकमिष-छल-छद्म-कपट-व्याजादिपदैर्विषयासत्यत्वपर्यवसायिरूपवपुर्नामात्मभङ्ग्यादिशब्दैश्च निषेधे बोध्यमाने तु एकवाक्यता । क्वचिदपह्नवपूर्वकत्वं क्वचिच्चारोपपूर्वकत्वं क्वचिदप्रकृतताद्रूप्यप्रकृतनिषेधयोरेकस्य शाब्दत्वमेकस्यार्थत्वं क्वचिदुभयोश्शाब्दत्वमथोभयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेत्येवमनेके प्रकारास्संभवन्तोऽपि चमत्कृतिविशेषानाधायकतया न गणनीयाः । एवमपि दिङ्मात्रमुदाह्रियते--

 न मुखमिदं लावण्याम्बुधिरेष न चाधरः प्रवाळस्ते । नेमे दशना मुक्ता न नयनयुगमेतदीश मीनयुगम् ॥ ३२६ ॥

 हे ईशेति संबुद्धिः । ते तव इदं सर्ववाक्यान्वयि । इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसंघातात्मकतया सावयवा । अत्रापह्नवपूर्वकत्वमुभयोश्शाब्दत्वं विधेयत्वं वाक्यभेदश्च ॥

 यथा वा--

 यदिह त्वद्वदनेऽसितमुदितमिदं भ्रूयुगं वदन्त्वज्ञाः। नाथ वयं निगदामो नासावंशाङ्कुराद्यदळयुग्मम् ॥ ३२७ ॥

 इयं निरवयवा । अत्र वक्तृगताज्ञत्वकथनेन तद्गतभ्रान्तिप्रतिपत्तिव्यवहिता निषेधप्रतिपत्तिरिति निषेध आर्थः । ताद्रूप्यं शाब्दम् । विधेयत्ववाक्यभेदापह्नवपूर्वकत्वानि पूर्ववदेव ॥