पृष्ठम्:अलङ्कारमणिहारः.pdf/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
188
अलंकारमणिहारे

 इत्यत्राप्यसादृश्यमूलकत्वमनुसन्धेयम् । पूर्वोदाहरणेषु धर्मनिह्नवोऽन्यधर्मारोपार्थः, इह तु कालपरिच्छेदफलापह्नवश्चोरताप्रकटनरूपफलारोपार्थ इति विशेषः ॥

 नियतं न कलङ्कोऽयं शशाङ्कबिम्बे यदेतदानीलम् । त्वन्मुखरुचिविजिततया हृन्मध्ये धृतमनेन भयशल्यम् ॥ ३२४ ॥

 अत्राप्रकृत एव कलङ्के भगवन्मुखरुचिविजितत्वनिबन्धनहृदयधृतभयशल्यत्वारोपफलकः कलङ्कत्वनिह्नवो निबद्धः ॥

 एवम्--

 इन्दोरेकः किरणः परत्वमिच्छुस्तव स्मितादम्ब । मध्येऽभिहतोऽपरतां गतः किणोऽभूत्तमाहुरङ्क इति ॥

 इत्यत्राप्यप्रकृत एव कलङ्के किरणत्वारोपफलकः कलङ्कत्वनिह्नवः । हे अम्ब! इन्दोः एकः किरणः सारभूतो मध्यस्थित इति भावः । तव स्मितादपि परत्वमुत्कर्षं इच्छुः 'न लोक' इति कर्मणि षष्ठ्या निषेधः । अत एव मध्ये इच्छाफलावाप्त्योरन्तराळ एव अभिहतः तव स्मितेनेति भावः । अत एव अपरतां अनुत्कर्षं गतस्सन् किणः अभूत् । तं किणमेव अङ्क इत्याहुः । अयं किण एव नाङ्क इति भावः । अत्र किरणकिरणशब्दः मध्ये अभिहतः अत एव अपरतां अपगतरेफतां गतस्सन् किणः अभूत् । किरणशब्दे रेफापनयने किण इति निष्पद्यत इत्यर्थोऽपि चमत्कारी ॥

 काव्यप्रकाशाद्यनुयाय्यस्मदुपदर्शितशुद्धापह्नुतिलक्षणस्य तु नेदं लक्ष्यम्, अपि तु वक्ष्यमाणमेवेत ध्येयम् । अस्यां च न-