पृष्ठम्:अलङ्कारमणिहारः.pdf/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
187
अपह्नुतिसरः (१३)

नारं नराणां संघातं कलहेनैव यो द्यति ।
तस्मान्नारदनामाऽसौ लोके विख्यायते मुनिः ॥

इति वा निरुक्तशब्दवाच्यो न, किंतु सारद इति युक्तम् । उपपादितरीत्या भगवच्चरितसारदत्वादिति भावः । अत्र नारदशब्दः आदौ प्रथमं नानाप्तः ना इत्याकारकवर्णेनाननुषक्तः त्यक्तनाकार इत्यर्थः, अथ सादरः तत्रैव सा इत्याकारकवर्णे आदरो यस्य स तथोक्तः । आदौ साकारघटित इति यावत् । एवंचेन्नारदशब्दस्सारद इति निष्पद्यत इति वैचित्र्यं च गर्भितम् ॥

 यथा वा--

 कृष्णायाः स्फीताम्बरदानात् स्फीताम्बरेति वक्तव्ये । अमहाप्राणोच्चारणपटवः पीताम्बरेति जगदुस्त्वाम् ॥ ३२२ ॥

 अमहाप्राणोच्चारणपटवः महाप्राणवर्णोच्चारणाशक्ताः केचित् पीताम्बरेति त्वां जगदुः । स्फीताम्बर पीताम्बरेति संबुद्ध्यन्ते पदे । स्फीताम्बरेत्यत्र सकारफकारौ हि महाप्राणौ अन्ये अल्पप्राणाः । 'वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणः अन्ये महाप्राणाः' इत्युक्तेः । एषु पद्येषु ज्यामूतत्वसारदत्वस्फीताम्बरत्वारोपफलकः जीमूतत्वनारदत्वपीताम्बरत्वनिह्नवो न सादृश्यमूलकः ॥

 एवं--

 रश्मिभिराबध्य रविं कौस्तुभवसुविभवभारचोर इति । चारयति प्रकटयितुं शौरिर्न तु कालमिह परिच्छेत्तुम् ॥ ३२३ ॥