पृष्ठम्:अलङ्कारमणिहारः.pdf/१८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
180
अलंकारमणिहारे

मारोप्यते । एवमादयोऽन्येऽपि प्रकारा उन्नेयाः । उक्तेष्वेतेषूदाहरणेषु सोऽयं संदेहालंकारस्स्वशब्दवेद्यत्वाद्वाच्यः ॥

 लक्ष्यो यथा--

 लीलाजलरुहमचलाबालायाः करमपीक्षमाणस्य । दोलायते स्म हृदयं व्यालाद्रिपतेः करग्रहावसरे ॥ ३१५ ॥

 अचलाबालायाः धरणीगर्भसंभूतायाः पद्मावत्याः करग्रहावसरे पाणिपीडनसमये । अत्र पर्यायेण कोटिद्वयालम्बितया दोलासादृश्यात्संदेहोऽत्र दोलापदेन लक्ष्यते ॥

 व्यङ्ग्यो यथा--

 उत्सवगतस्स भगवानुदयन्तं भानुमन्तमभिवीक्ष्य । वक्षस्सहसाऽस्प्राक्षीदब्जाक्षस्स्वीयमहिधराध्यक्षः ॥ ३१६ ॥

 अत्र भगवतस्सहसा वक्षस्स्थलस्पर्शेन तत्र स्थित एव कौस्तुभमणिस्ततश्च्युतः किं पुरस्तात् दृश्यत इति संदेहो व्यङ्ग्यः ॥

 यथा वा--

 तिलकितनिजमुखवीक्षणकुतुकवतश्श्रीसखस्य नयनयुगम्। यातायातच्छ्रान्तं मुकुरे कमलाकपोलफलके च ॥ ३१७ ॥

 अत्र मुकुरधर्मिकोऽभेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रकारकः मुकुरोऽयं वाऽयं वेति भगवन्नयनयुगगतस्संदेहो व्यङ्ग्यः ।