पृष्ठम्:अलङ्कारमणिहारः.pdf/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
179
संदेहसरः ‍‌‍‌‍‌(१२)

 विधुभद्रश्रीव्यतिकरसुस्मेरमिदं स्पृशेयमिति शौरौ । वदति समशेत राधा स्पृशेन्मुखं वा स्तनद्वयं वेति ॥ ३१३ ॥

इत्यत्र नातिप्रसङ्गः । अत्र हि मुखस्तनद्वयकर्मकं स्पर्शनं विषयविषयिभावानापन्नं संदिह्यते । विधोः चन्द्रमसः भद्रा कल्याणी या श्रीः तस्याः व्यतिकरस्संबन्धः तेन सुस्मेरं स्मयमानं चन्द्रनिभमिति यावत् । अन्यत्र विधोः कर्पूरस्य भद्रश्रियः चन्दनस्य च व्यतिकरेण विलेपनेन सुस्मेरं ‘विधुश्शशाङ्के कर्पूरे’ इति रत्नमाला । ‘भद्रश्रीश्चन्दनोस्त्रियाम्' इत्यमरः । स्पष्टमन्यत् ॥

 परम्परितोप्ययं संभवति, यथा--

 श्रुतिवनमदावलो वा लक्ष्मीवर्षाशिखावलो वऽयम् । दर्वीकरगिरिमणिमिति निर्वर्णयता जनेन संदिदिहे ॥ ३१४ ॥

 अत्र संदेहस्य परंपरितत्वं च परंपरितरूपकपूर्वकत्वम् । न तु संदेहहेतुकसंदेहत्वम् । श्रुत्यादीनां वनत्वादिसंदेहाविषत्वादिति ध्येयम् ॥

 क्वचित्परनिष्ठोपि कविना निबध्यमान आहार्यो भवति, यथा ‘जलदभ्रमेण लग्ना तटित्' इति प्रागुदाहृते पद्ये । तत्र भगवतस्सर्वज्ञस्य संशय आहार्य एव । तत्र च जलदभ्रमेण लग्ना तटिन्नु ? गगनभ्रमाल्लग्ना चन्द्रकला नु? इति कोट्योः हृदयलग्नरमारूपधर्मिसादृश्यदार्ढ्यायाविद्यमानमपि भ्रमाल्लग्नत्व-