पृष्ठम्:अलङ्कारमणिहारः.pdf/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
175
संदेहसरः ‍‌‍‌‍‌(१२)

 केचित्तु--ईदृशस्थले इवादिशब्दवत् नु किं इत्यादिशब्दानां संभावनाद्योतकत्वादुत्प्रेक्षामाचक्षते । रसगङ्गाधरकारस्तु नेदृशस्थलेऽध्यवसायस्सम्भवतीति मन्यते । तन्मतेनात्रेदं विचार्यते--'किं मरकतरुचिपूरैः' इति पद्ये तावत् मरकतरुचिपूरादिकरणकपरिपूरितत्वादिकोटिकः फणिशिखरिगतभगवन्मन्दिरान्तरधर्मिकस्सन्देहश्शब्दात्प्रतीयते । तस्मिंश्च सन्देहे किमिदं मरकतरुचिपूरस्स्यात् आहोस्वित् हरिमणिमहस्स्यादिति हरितेजोधर्मिकं सन्देहान्तरमानुगुण्यमाधत्ते, यथा--पुरोवर्तिनि वृषभे स्थाणुर्वा पुरुषो वेति संदेहो भूतलमिदं स्थाणुमत्पुरुषवद्वेति संदेहे । एवंच हरितेजोधर्मिकस्संदेहो गुणीभूतो व्यञ्जनागम्यत्वाद्विषयविषयिणोरारोपानुकूलविभक्तिकतां नापेक्षते । अपेक्षते च साक्षाच्छब्दवेद्यतायामिति क्वाध्यवसायमूलता संदेहस्येति । एतेनाध्यवसानमूलतां संदेहस्य निरूपयतामुक्तिः परास्ता ॥

 एवं--

 नयनं किमञ्जनाक्तं मृगमदपङ्कैः किमङ्गमालिप्तम् । इति संशयं जनानां विदधानाऽच्युतरुचिर्धुनात्वशुभम् ॥ ३०६ ॥

 इत्यादिविभिन्नाश्रयाध्यवसायमूलसंदेहेष्वपि द्रष्टव्यम् । अस्मिंश्च संदेहे नानाकोटिषु क्वचिदेक एव समानधर्मः, क्वचित्पृथक् । सोपि क्वचिदनुगामी, क्वचित्केवलबिम्बप्रतिबिम्बभावमापन्नः, क्वचिद्वस्तुप्रतिवस्तुभावकरम्भितं बिम्बप्रतिबिम्बभावमापन्नः, क्वचिदनिर्दिष्टः, क्वचिन्निर्दिष्टः । तत्र 'किमियं गङ्गा न हरेः' इति प्रागुदाहृते पद्ये धावळ्यं धर्मिणो भगवन्मन्दहसि-