अयं च संदेहो हरितेजोविषयककविगतरतिपरिपोषकत्वेन ललनाकरधृतवलयादिरिव प्राधान्येनालंकारव्यपदेशभाग्भवति । अत्र च विवक्षिते विवेच्यमाने हरितेजसि मरकतरुचिपूरादिकोटिकः पर्यवस्यति सन्देहः । स च न सारोपः, विषयविषयिणोस्तदनुरूपविभक्त्यदर्शनात् । अतः मरकतरुचिपूरत्वादिना संदेहधर्मिहरितेजोऽध्यवसीयत इति ॥
हेतुसन्देहो यथा--
स्मयसे यदिदं स्वामिन् किं तन्मच्चरितचिन्तनादथवा । ईदृक्षरक्ष्यलाभात्किं वा मम दुर्लभेप्सितोद्योगात् ॥ ३०४ ॥
अत्र स्मयनहेतौ निरतिशयानन्दत्वे कविना स्वचरितचिन्तनादिहेतुत्रयमध्यवसितम् ॥
फलसन्देहो यथा--
सुखदमिदमेव पदमिति सूचयितुं किं न्विदं हि परमपदम् । इति कथयितुं नु पन्नगपतिगिरिपतिना करोऽवनमितोऽयम् ॥ ३०५ ॥
हरिणा श्रीनिवासेन वरदानार्थमवनमितः अयं करः दक्षिणहस्त इति भावः । इदं पदं स्वचरणमेव सुखदं जनानामिति सूचयितुं किमवनमितः । इदमेव क्षेत्रं परमपदमिति कथयितुं व्यञ्जयितुमिति यावत् । अवनमितो नु इति योजना । अत्र हस्तावनमनफले वरदाने सूचनादिफलमध्यवसितम् ॥