अत्रारोपविषये अच्युतद्युतिभरे तमालत्वादिर्नगादिभिन्नाश्रयत्वेनारोपितः । नगाः तरवः । एषूदाहरणेषु संदेहस्यैव प्राधान्येनान्यानुपस्कारकत्वात्संपुटादिगतकङ्कणादिष्विव तद्योग्यतामात्रेण गौणोऽलंकारव्यपदेशः । एवंच--
भगवन्नहिनगवसते जगदीशत्वे तवापि ये सन्दिहते । सत्त्वे तेषामेषां सत्त्वैकधना जनाः परं सन्दिहते ॥ ३०२ ॥
इत्यत्रापि सत्यपि चमत्कारे सादृश्यमूलकत्वविरहान्न सन्देहस्यालंकारता । तेषां सन्दिहानानां जनानां सत्त्वे ब्राह्मण्यादिप्रयुक्तप्राशस्त्ये विषये सत्त्वैकधनाः सात्विका जनाः परं अतिशयितं यथा स्यात्तथा सन्दिहते ॥
विष्णुभक्तिविहीनो यस्सर्वशास्त्रार्थवेद्यपि । |
इत्युक्तरीत्या संशेरते इत्यर्थः । एवमारोपमूलोऽयं संदेहालंकारः अध्यवसानाश्रयत्वेऽपि भवतीति सर्वस्वकारः । अयं च स्वरूपहेतुफलानां सन्दिह्यमानत्वेन त्रिधा भवतीति विमर्शिनीकारः ॥
तत्र स्वरूपसंदेहो यथा--
किं मरकतरुचिपूरैरपूरि किमलेपि हरिमणिमहोभिः । फणिशिखरिमन्दिरान्तरमिति संशयदं हरेर्जयति तेजः ॥ ३०३ ॥