पृष्ठम्:अलङ्कारमणिहारः.pdf/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
172
अलंकारमणिहारे

महौन्नत्यम् । सर्वोन्नतावुभावपि दर्वीकरशैलतदधिपौ भवतः ॥ २९८ ॥

 निश्चयगर्भः--यस्संशयोपक्रमो निश्चयमध्यस्संशयान्तश्च । स यथा--

 किमियं गङ्गा न हरेर्मुखे भवेत्साऽथवा किमु ज्योत्स्ना । साऽपि तथैवेति जनाश्श्रीपतिहसितं विलोक्य सन्दिहते ॥ २९९ ॥

 साऽपि ज्योत्स्नाऽपि तथैव हरेर्मुखे न भवेदेवेत्यर्थः । अत्रोपक्रमोपसंहारयोस्संशय एव ॥

 निश्चयान्तः--यत्र संशये उपक्रमः निश्चये पर्यवसानम् ।

 यथा--

 जलदभ्रमेण लग्ना तटिन्नु गगनभ्रमान्नु चन्द्रकला । इति संशय्य हरिस्तां स्मयमानां हृदि विनिश्चिनोति रमाम् ॥ ३०० ॥

लग्नेत्येतद्गगनभ्रमादित्यत्राप्यनुषज्यते ॥

 क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन संदेहो दृश्यते । यथा--

 सर्वे नगास्तमालीकृताः किमु खगाश्शिखीकृताः किं नु । जलदीकृता नु ककुभो विसृत्वरेणाच्युतद्युतिभरेण ॥ ३०१ ॥