पृष्ठम्:अलङ्कारमणिहारः.pdf/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
171
सन्देहसरः ‍‌‍‌‍‌(१२)

 दृशः कटाक्षस्य । इदमिति सामान्येन नपुंसकेन हरिकटाक्षनिर्देशः । समशायि सन्दिदिहे ॥

 यथा वा--

 तारासारांशो वा तटिल्लतौघस्फुटोल्लसच्छ्रीर्वा । इति मुररिपुहृदयगतां वीक्ष्याब्धिसुतां जनेन संदिदिहे ॥ २९६ ॥

 अयं च संदेहः क्वचिद्विषयिणामेव संदिह्यमानत्वे क्वचिच्च विषयविषयिणोरप्यलंकारो भवति । उभयत्रापि सामान्यलक्षणावगमात् । अनियतोभयांशावलम्बी हि विमर्शस्सन्देहः। उदाहरणद्वये विषयिमात्रसंदेह उक्तः । अत्र हि प्रकृतयोर्भगवत्कटाक्षलक्ष्म्योस्संदेहकोटित्वविरहाद्विषयिणां तुषारासारतारासारां शादीनामेव संदेहः ॥

 विषयविषयिणोर्यथा--

 किं नखरुचिवलयं ज्वलदथवा दोस्तेजसां शिखावलयम् । अरुणरुचि हरिकराब्जे निरुपममेतच्चकास्ति चक्रं वा ॥ २९७ ॥

 अत्र विषयिणो नखरुचिवलयादेरिव विषयस्य चक्रस्यापि संदेहकोटित्वम् ॥

 यथा वा--

 हरितोऽध्यैष्ट गिरिः किं गिरितो वा हरिरिदं