क्वचिद्भ्रान्तेरुत्तरोत्तरं पल्लवेन चमत्कारः, यथा--
मरकतशिखामणिं शुकमथ मकुटं शोणमणिमयं शौरेः । तन्निष्कुलाकृतं श्रीर्दाडिममवयन्ति तव विलासशुकाः ॥ २९२ ॥
हे श्रीः तव विलासशुकाः शौरेः मरकतरूपं शिखामणिं किरीटकोटिगतं शुकं अवयन्ति जानन्ति, अथ अनन्तरमेव शोणमणिमयं पद्मरागप्रचुरं तैः खचितमित्यर्थः । मकुटं तेन शुकेन निष्कुलाकृतं त्रोटीकोटीकुट्टनेन बहिराविष्कृतबीजराजिकं दाडिमफलमवयन्तीत्यनुषज्यते । निष्कुलाकृतमित्यत्र ‘निष्कुलान्निष्कोषणे' इति सूत्रेण निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥
क्वचित्परस्परविषयभ्रान्तिनिबन्धनेन विच्छित्तिविशेषः, यथा--
बिभ्यति वीक्ष्य मयूरान् कादम्बा नूतनाम्बुदभ्रान्त्या । तेऽपि निरीक्ष्य मराळान् शारदनीरदधिया वृषाद्रिवने ॥ २९३ ॥
अथास्य ध्वनिः.
यथा--
प्रणतमृडमकुटसरिति प्रतिवीचि त्वत्पदप्रतिच्छन्दान् । प्रणमन् विलोक्य गजमुखशिशुस्स्वशुण्डां प्रसारयति शौरे ॥ २९४ ॥