पृष्ठम्:अलङ्कारमणिहारः.pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
168
अलंकारमणिहारे

जाने । अस्मिन्नर्थे यो भ्राम्यति भ्रान्तो भवति सः भवे संसारे चिरात् भ्राम्यति भ्रमणं प्राप्नोति । अनेन--

यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।
मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति ॥

इति श्रुत्यर्थोऽनुसंहितः । अत्र भ्रान्तेरसादृश्यनिबन्धनत्वान्नालंकारत्वम् । सादृश्यहेतुकाऽपि भ्रान्तिर्विच्छित्त्यर्थं कविप्रतिभोन्मेषितैव गृह्यते । यथा अनुपदमेव ‘जलविहृतौ' इत्युदाहृते पद्ये । न स्वरसोन्मेषिता शुक्तिरजतवत् । एवं सादृश्यनिमित्तकत्वादनुगाम्यादयोऽस्य साधारणधर्मा यथासम्भवं भवन्ति ।

 तत्रानुगामी धर्मो यथा--

 उपगूहितुमुपसर्पति चपलतया श्रीस्सरीसृपगिरीन्दौ । द्युमणिरिति कौस्तुभमणिं घृणिमन्तं संवृणोति पाणिभ्याम् ॥ २९० ॥

 अत्र घृणिमन्तमित्यनुगामितया निर्दिष्टो धर्मः ॥

 बिम्बप्रतिबिम्बभावापन्नो यथा--

 रोमाळिशिखरलग्ने कौस्तुभरत्ने सनाळनलिनधिया। झगिति लगन्ति भ्रमराः कमलाकर्णावतंसकह्लारात् ॥ २९१ ॥

 झगिति झडितीत्यर्थः । एवमन्यदप्यूह्यं बुद्धिमद्भिः ॥