पृष्ठम्:अलङ्कारमणिहारः.pdf/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
164
अलंकारमणिहारे

 यथा वा--

 निबिरीससौकुमार्यं शिरीषकुसुमं निरीक्षमाणस्य । स्मृतिसृतिमधिरोहति मम सरीसृपगिरीशसहचरीहृदयम् ॥ २८२ ॥

 अत्र मधुरतरत्वादिर्धर्म उपचरितः । इयांस्तु विशेषः--यदेकत्रानुभूयमाने भगवच्चरिते स्मर्यमाणस्य मधुप्रभृतेस्सादृश्यस्य सिद्धिः । अपरत्र स्मर्यमाणे भगवद्दयिताहृदयेऽनुभूयमानस्य शिरीषकुसुमस्य सादृश्यसिद्धिरिति, उभयाश्रयत्वात्सादृश्यस्य ॥

 श्लेषात्मके यथा--

 विनिशाम्यते यदा तव विभासिनीहारभारमाश्लिष्टा । हृदयस्थली तदाऽच्युतहृदयं मे विशति हैमनसमृद्धिः ॥ २८३ ॥

 विभासिनी हारभासा रमया च समाश्लिष्टा । पक्षे-- विभासी चासौ नीहारभारः हिमातिशयः तं आश्लिष्टा । कर्तरि क्तः । हेमन्तस्येयं हैमनी सा चासौ समृद्धिः हेमन्तसंबंन्धिलक्ष्मीरित्यर्थः । हेमन्तशब्दात् ‘सर्वत्राण् च तलोपश्च’ इत्यणि तलोपः । ‘टिढ्ढ' इति ङीप्, पुंवद्भावश्च ॥

 यथा वा--

 मृद्वीकामितफलदा यदाऽक्षिपदवीं गता हरेः प्रमदा । उद्यानवनी हृद्या हृद्यारूढा तदा न कस्य भवेत् ॥ २८४ ॥