पृष्ठम्:अलङ्कारमणिहारः.pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
163
स्मृतिसरः ‍‌‍‌‍‌(१०)

न्दरत्वादिरेव । अप्रसिद्धस्तु धर्मोऽवश्यं साक्षादुपादेय एव । अन्यथा तस्याप्रतिपत्तौ कवेस्तदुपमानिर्माणप्रयासवैयर्थ्यापत्तेः । यथा--'घना इव महसारा जना यस्यां प्रतिष्ठिताः' इत्यादौ श्लिष्टश्शब्दात्मकः । तथाच कश्चित्साधारणो धर्मस्साक्षादनुपादेय एव, कश्चिदुपादेयोऽनुपादेयश्च, काश्चिदुपादेय एवेति सहृदयसम्मतस्समयः । एवमेवोपमाजीवातुकेऽस्मिन् स्मृत्यलंकारेऽपीति । तत्रानुगामिनि धर्मे ‘विलोचने स्मारिते वृषगिरीन्दोः' इत्यनुपदोदाहृते पद्ये निवेदितमेव स्मरणम् । तत्राम्बुरुहभगवद्विलोचनयोर्विपुलत्वविमलत्वसुन्दरत्वादिरनुपात्तस्समानोऽनुगामी धर्मः ॥

 बिम्बप्रतिबिम्बभावापन्ने त्विदमुदाहरणम्--

 शारदनीरदनिबिडितवृषगिरिशिखरावलोकनेन हरिः । शुचिकञ्चुकमस्मार्षीत्पद्मावत्याः पयोधरद्वंन्द्वम् ॥ २८० ॥

 अत्र बिम्बप्रतिबिम्बभावापन्ने समानधर्मे स्मृतिः ॥

 उपचरिते यथा--

 मधुरतरं तव चरितं मधुमथनाहं यदा निशमयामि । अध्येमि तदा चेतोमध्ये मधुविधुसुधामधुरसानाम् ॥ २८१ ॥

 मधुरसा द्राक्षा ‘मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च' इत्यमरः । अध्येमि स्मरामि 'इक् स्मरणे' इत्यस्माद्धातोरधिपूर्वाल्लट् ‘अधीगर्थ’ इति षष्ठी । चेतोमध्ये हृदयान्तरे ॥