पृष्ठम्:अलङ्कारमणिहारः.pdf/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
158
अलंकारमणिहारे

 गोपेषु गोपरूपो भूपेषु विभासि धन्विमूर्धन्यः । तापसयूधे तापस एकोऽनेकाकृतिस्त्वमब्जाक्ष ॥

 अत्र गोपादिसहचरभेदप्रयुक्तं भगवतोऽनेकविधत्वम् । एवमन्येषां सम्बन्धिनां भेदेऽप्यूह्यम् ॥


अथोल्लेखध्वनिः.


यथा--

 ननु नाथ मोहभुग्ना व्यसनविविग्ना विरोधिभिर्भग्नाः। उपतापैरपि रुग्णास्त्वां वीक्ष्यानन्दसंप्लवे मग्नाः ॥ २७० ॥

 अत्र चरणत्रयोदितानां चतुर्णां वीक्षणकर्तॄणामानन्दसंप्लवमग्नत्वोक्त्या क्रमेण मोहव्यसनविरोध्युपतापनिरासकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्योल्लेखस्य ध्वनिः ॥

 संकीर्णस्य यथा--

 अहिगिरिपरिसरधरणौ विहरति हरिनीलरुचिररुचि भवति । अनगच्छन्ति करिण्यो ननु नृत्यन्ति च रमेश बर्हिण्यः ॥ २७१ ॥

 अत्र ध्वन्यमानया एकैकग्रहणरूपया द्विरदजलदभ्रान्त्या तदुभयसमुदायरूप उल्लेखस्संकीर्णः। न चात्र भ्रान्तिरेव चम-