पृष्ठम्:अलङ्कारमणिहारः.pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
148
अलंकारमणिहारे

ताद्रप्यापत्त्या कार्योपयोगित्वं तत्र परिणाम इति । काव्यप्रकाशकारादिभिस्तु-- उभयत्राप्युत्तरपदार्थप्रधानमयूरव्यंसकादिसमासाविशेषादीदृशं वैषम्यं नातीव चमत्कारयिति परिणामः पृथगनुपात्तः ॥

 केचित्तु—"क्वचित्केवलो विषयस्स्वात्मना न प्रकृतोपयोगीत्ययमारोप्यमाणाभिन्नतयाऽवतिष्ठते तत्रारोप्यमाणपरिणामः, यथा—‘वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ’ अत्र वदनमिन्द्वभिन्नतयाऽवतिष्ठते, केवलस्य वदनस्य दृक्छिशिरीकारकत्वायोगात् । क्वचिच्चारोप्यमाणस्स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयाऽवतिष्ठते । तत्र विषयपरिणामः, यथा-–'वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति' अत्रेन्दुर्वदनाभिन्नतयाऽवतिष्ठते, केवलस्येन्दोः स्मरतापापनोदकत्वायोगात् । एवं च परिणामद्वयात्मकमिदं रूपकमेव भवितुमर्हति विषयतावच्छेदकविषयितावच्छेदकान्यतरपुरस्कारेण निश्चीयमानविषयिविषयान्यतरत्वस्य तल्लक्षणत्वात् । अत एवोक्तं-–'तद्रूपकमभेदो य उपमानोपमेययोः' इति । तस्मान्न रूपकात्परिणामोऽतिरिच्यते” इति वदन्ति । वस्तुतस्तूक्तरीत्या विच्छित्तिविशेषस्य सद्भावे अलंकारान्तरत्वमवश्याभ्युपेत्यम् । अन्यथा तुल्ययोगितादीपकादीनामपि यत्किंचिद्वैलक्षण्यसद्भावेन पृथगलंकारता न स्यादिति दिक् ॥