पृष्ठम्:अलङ्कारमणिहारः.pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
140
अलंकारमणिहारे

शं सुखं श्रियं पद्मामपि दधाना अन्यत्र शंपायाः तटित अवनी पालनी ‘शम्पा शतह्रदा ह्रादिन्यैरावत्यः' इत्यमरः । श्रियं श्यामां शोभामिति यावत् । दधाना अपिशब्दः पूर्वोक्तविशेषणसमुच्चायकः । हरिमूर्तिः श्रीनिवासतनुः अम्बुधरमाला कादम्बिन्येव । अत्र अचलशिखावलमानादिशब्द उपात्त एव प्रतीयते न तु लुप्तः ॥

 यथा वा--

 भुजगेन्द्रभूभृति सदा सौरभसात्कृततथाविधाभ्युदयः । हरिचन्दनतरुरिन्धे समुन्नतश्श्रीलता मनोज्ञवपुः ॥ २३७ ॥

 भुजगेन्द्रभूभृति शेषाद्रौ । सदा असौ इति छेदः। रभसात् वर्षात् शरणागतपरित्राणत्वराविशेषाद्वा ‘रभसो वेगहर्षयोः' इति विश्वः । कृतः तथाविधः आगोपालं साक्षात्कारार्हः अभ्युदयः आविर्भावो येन स तथोक्तः । मुदा सह वर्तन्त इति समुदः नताः शरणागताः यस्य सः समुन्नतः । श्रीरस्मिन्नस्तीति श्रीलं श्रीशब्दस्य सिध्मादिषु पाठात् ‘सिध्मादिभ्यश्च' इति मत्वर्थीयो लच् । ‘लक्ष्मीवान् लक्ष्मणश्श्रीलः' इत्यमरः । श्रीलस्य भावः श्रीलता तया मनोज्ञं वपुर्यस्य सतथोक्तः लक्ष्मीविशिष्टतया रमणीयदिव्यमङ्गळविग्रह इत्यर्थः । हरिरेव हरिचन्दनतरुः सदा इन्धे इति भगवत्पक्षे ॥

 चन्दनतरुपक्षेतु--सदासौरभसात्कृततथाविधाभ्युदय इति समस्तं पदम् । सदासौरभसात्कृतः परिमळव्याप्तः कृतः तथाविधः अभ्युदयः प्रादुर्भावः उत्कर्षो वा यस्य स तथोक्तः ।