पृष्ठम्:अलङ्कारमणिहारः.pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
138
अलंकारमणिहारे

दीनां च विभक्तिभेदः । वसनरुचेति तृतीयाया अभेदोऽर्थः । वसनरुगभिन्नपल्लववदिति बोधः । वसनरुगभेदे तु पल्लवेषु गृह्यमाणे हरेरुरसि विहारवनत्वरूपकं परिपोष्यते ॥

 साधारणधर्मश्चात्राप्युपमायामिव क्वचिदनुगामी क्वचिद्बिम्बप्रतिबिम्बभावापन्नः क्वचिदुपचरितः क्वचिच्च श्लेषात्मा केवलशब्दरूपः सोऽपि क्वचिच्छब्देनोपात्तः क्वचित्प्रतीयमानतया नोपात्तः ॥

 तत्रोपात्तोऽनुगामी यथा

 दुर्विषहविषमविषनिभजन्मजरादिव्यधातुरान्लोकान् । पालयितुं विकिरसि फणिशैलपते ननु कटाक्षममृतं त्वम् ॥ २३३ ॥

 अत्र पालयितुमिति तुमुन्नन्तेन शब्देनोपात्तं लोकपालनं मृतभगवत्कटाक्षयोरनुगामी धर्मः ॥

 अयमेवानुपात्तो यथा--

 परिपाटी तुहिनानां परिपाकश्शीतकिरणकिरणानाम् । परिवर्तनममृतानां परंपरा श्रीपतेरपाङ्गानाम् ॥ २३४ ॥

 अत्र तुहिनपरिपाटीप्रभृतीनां श्रीनिवासापाङ्गानां चानन्ददानादिरनुपात्तः प्रतीयमानो धर्मः ॥

 बिम्बप्रतिबिम्बभावापन्नस्तु विशिष्टरूपकप्रसङ्गे निरूपितः ॥

 उपचरितो यथा--

 शिशिरतया तव करुणा शिशिरांशुमरीचिवी-