पृष्ठम्:अलङ्कारमणिहारः.pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
137
रूपकसर‌ः‍‌‌‍ (७)

कनिदर्शनयोर्वैलक्षण्येन सकलव्यवस्थोपपत्तेः । तस्मादत्र वाक्यार्थरूपकमेव । न वाक्यार्थनिदर्शना । तस्याश्चैवमुदाहरणं निर्मातव्यं--

त्वत्पादनखरत्नानि यो रञ्जयति यावकैः ।
इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥

इति । अत्र कर्त्रोरभेदस्य शाब्दत्वेऽपि क्रिययोरभेदस्याशाब्दत्वात्तस्यैव समग्रभारसहिष्णुत्वान्निदर्शनैव । यदपि बिम्बप्रतिबिम्बभावो रूपके नास्तीत्युक्तं, तदयुक्तं, विमर्शिनीकारादिभिः 'कन्दर्पद्विपकर्णकम्बुमलिनैः’ इत्यादिना बिम्बप्रतिबिम्बभावेन रूपकस्योदाहृतत्वात् । विस्तरस्तु रसगङ्गाधरे द्रष्टव्यः ॥

 फणिपतिगिरिचूडामणिहरिसेवनजृम्भितो ममानन्दः। उदयगिरिशिखरगतविधुविलोकलुलितो महाब्धिरुद्वेलः ॥२३१ ॥

 इत्यादावपि विशिष्टरूपकं बोध्यम् । ‘त्वयि निग्रहसंकल्पः' इत्यत्र विषयिणस्स्वबुद्धिपरिकल्पितत्वात्कल्पितं विशिष्टरूपकम् । इह तु न तथेति वैलक्षण्यम् ॥

 इदं रूपकं वैयधिकरण्येनापि दृश्यते, यथा वा--

 वसनरुचा पल्लवितं हारगमुक्तागणेन कोरकितम् । कौस्तुभमणिना फलितं श्रीविहृतिवनं हरेरुरो ललितम् ॥२३२ ॥

 वसनरुचा पीताम्बरनत्विषा । हरेरुरः श्रीविहृतिवनमिति

योजना । अत्र विषयाणां वसनरुच्यादीनां विषयिणां पल्लवा-

 ALANKARA
18