पृष्ठम्:अलङ्कारमणिहारः.pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
136
अलंकारमणिहारे

 त्वयि निग्रहसंकल्पः पयसिजनिलये दयासुधाजलधौ । शुक्लप्रतिपदुदञ्चितचन्द्रकलायां कलङ्क इव भायात् ॥ २३१ ॥

 इत्यादौ च स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययाद्यद्युपमां ब्रवीषि ब्रूहि तावत्तर्हि तत्रैव इवस्यापसारणे । ‘त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः’ ‘शुक्लप्रतिपदुदञ्चितचन्द्रकलायां कलङ्कोऽयम्’ इत्यादौ रूपकमपि । नन्वेवं रूपके बिम्बप्रतिबिम्बभावसंभवे--

त्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥

इत्यत्रापि रूपकमेव स्यात् । बिम्बप्रतिबिम्बभावेन धर्मस्य सद्भावादिति चेत् इष्टैवेयमापत्तिः । तर्ह्यस्य प्राचीनैर्निदर्शनोदाहरणतोक्तिर्विरुध्येतेति चेत्--कामं विरुध्यतां निदर्शनोदाहरणत्वायोगादस्य । यद्यत्र 'मुखं चन्द्रः' इत्यादिरूपकान्तर इव सत्यपि श्रौतारोपे नेदं रूपकं, किंतु निदर्शनैवेत्यागृह्यते तदा मुखचन्द्र इत्यपि निदर्शनेत्युच्यतां निरस्यतां च रूपकमुखावलोकनदाक्षिण्यम् । किंच--त्वत्पादेत्यादौ किं पदार्थनिदर्शना ? आहोस्विद्वाक्यार्थनिदर्शना? नाद्यः बिम्बप्रतिबिम्बभावापन्नपदार्थघटितविशिष्टार्थयोरेवात्राभेदप्रतीतेः । कुवलयानन्दोक्तरीत्या धर्म्यन्तरे पदार्थे तदवृत्तिधर्मस्य पदार्थस्याभेदेनारोपस्याभावाच्च । न द्वितीयः, वाक्यार्थरूपकोच्छेदापत्तेः । इष्टापत्तौ वैपरीत्यस्यापि सुवचत्वाच्च । अस्माभिर्निदर्शनाप्रकरणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वाभ्यां उद्देश्यविधेयभावालिङ्गनानालिङ्गनाभ्यां च रूप-