पृष्ठम्:अलङ्कारमणिहारः.pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
135
रूपकसर‌ः‍‌‌‍ (७)

रुपादानम् । सावयवरूपकेऽपि विशेष्यरूपणात्पृथगेवावयवेषु रूपणं न त्ववयवविशिष्टरूपेण विशेष्ये--

अङ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे ।
विधिविष्टरपद्मस्य नाळदण्डो मुदेऽस्तु वः ॥

इत्यत्रापि अङ्घ्रिदण्डनाळदण्डयोर्न बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टरूपता । तयोः प्रतीयमानेन श्यामलत्वविधातृविष्टरकमलश्लिष्टत्वाद्यनुगामिधर्मेणैवोपमानोपमेयभावात् । किंतु विधातृविष्टरकमलश्लिष्टत्वरूपसाधारणधर्मवत्तासंपादनाय विशेषणविशिष्टतामात्रमुपमेयस्येति वाक्यार्थे वाक्यार्थारोपं न रूपकमित्याहुः

 तत्र प्राथमिकमतेन वाक्यार्थरूपकं यथा--

 श्रुतिशतनुतयशसस्ते प्रतियत्नो मादृशां वचोभिर्यत् । घनसारस्यान्यैस्तत्सुरभीकरणं निसर्गतस्सुरभेः ॥ २३० ॥

 प्रतियत्नो गुणाधानम् । अत्र भगवति वचस्सु चारोपविषयविशेषणतया बिम्बभूतेषु घनसारस्य सुगन्धिवस्त्वन्तराणां च विषयिविशेषणत्वेन प्रतिबिम्बानां रूपकं गम्यमानं प्रधानीभूतविशिष्टरूपकाङ्गम् । रूपके बिम्बप्रतिबिम्बभावासंभवान्नेदं रूपकमिति वदतां वचनं त्वनादर्तव्यमेव । ययोरिवादिशब्दप्रयोगे उपमा तयोरेकत्रान्यारोपे रूपकमिति नियमात् । यदाहुः-- 'उपमैव तिरोभूतभेदा रूपकम्' इति । यद्यत्र नाभ्युपगच्छसि रूपकं मास्मैवाभ्युपगच्छः तर्हि तत्र इवयथादिशब्दप्रयोगे माभ्युपगा उपमामपि । एवं--

त्वयि कोपो महीपाल सुधांशाविव पावकः।

इत्यादौ ।