पृष्ठम्:अलङ्कारमणिहारः.pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
134
अलंकारमणिहारे

 यथा वा--

 हरिभक्तिबीजराजेरिरिणैश्शुभशीलबालतृणहरिणैः । शमदमवनदवदहनैरलं खलैरतिविशृङ्खलैर्दृष्टैः ॥ २२८ ॥

 हरिभक्तिरेव बीजराजिः तस्याः इरिणैः ऊषरैः ‘इरिणं शून्यमूषरम्' इत्यमरः । शुभं कल्याणं शीलं सद्वृत्तं तदेव बालतृणं तस्य हरिणैः कुरङ्गैः । शमः कामक्रोधाद्यभावः दमः तपः क्लेशसहनं इन्द्रियनिग्रहो वा । ‘शमथस्तु शमश्शान्तिर्दान्तिस्तु दमथो दमः' इत्यमरः । तयोस्समाहारः शमदमं तदेव वनं तस्य दवदहनैः । अतिविशृङ्खलैः खलैः दृष्टैरलं तद्दर्शनमप्यस्माकमनभिमतमिति भावः ।

 यथा वा--

 सज्जनगोव्रजरक्षणतरक्षुभिः क्षुभितमभित इदमसुरैः । दुरितदवशमनपवनैर्भवनं कोऽच्युत विनाऽविता भविता ॥ २२९ ॥

 अत्र रक्षणशमनपदे विरोधिलक्षणया विपरीतार्थबोधके । अयमर्थः--द्वयोरेव मालारूपत्वं च पूर्वेभ्योऽत्र विशेषः । एवं पदार्थरूपकं दिङ्मात्रं दर्शितमेव । वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपकम् । यथा हि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थः तथाऽत्रापि वाक्यार्थघटकानां पदार्थानां रूपकमर्थावसेयमिति रसगङ्गाधरकृदादयः । अन्ये तु वाक्यार्थे वाक्यार्थान्तरारोपं निदर्शनां मन्वानाः रूपके न क्वचिदपि बिम्बप्रतिबम्बभावापन्नधर्मविशिष्टतया विषयविषयिणो-