पृष्ठम्:अलङ्कारमणिहारः.pdf/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
130
अलंकारमणिहारे

 इदमेकदेशविवर्त्यपि भवतीत्यवोचाम, तद्यथा--

 कान्तेर्नर्तनरङ्गं शान्तेरन्तःपुरं महोत्तुङ्गम् । क्षान्तेर्हरित्तुरङ्गं स्वान्ते कलयेम धाम दिव्याङ्गम् ॥

 अत्र भगवति नर्तनरङ्गादिरूपक्तैः कान्तिशान्तिक्षान्तिषु नर्तकीराज्ञीपद्मिनीरूपकाणि प्रतीयन्त इत्येकदेशविवर्ति मालापरंपरितं शुद्धम् ॥

 भुवनानामाधारं भानामवलम्बनं फणिगिरिस्थम् । शाखिकुलोल्लासकरं किंचन सौभाग्यमञ्च मम हृदय ॥ २१८ ॥

 अत्र भुवनानां लोकानामेव सलिलानां, भानां त्विषामेव ताराणां, शाखिकुलस्य वेदशाखाध्येतृनिवहस्यैव तरुनिकरस्येति श्लिष्टरूपकैर्भगवति विषये समुद्रसुधाकरवसन्तरूपकाणां गम्यमानतया इदमेकदेशविवर्ति श्लिष्टपरंपरितमिति दिक् ॥

 ज्ञानं धनं मतिमतां भानं धनमिह महस्विनां महताम् । सूनं धनं मधुकृतां नूनं धनमहिगिरीशिता नमताम् ॥ २१९ ॥

 अत्र विषयमालाकृतो न कश्चिच्चमत्कारविशेष इति न पृथग्भेदगणनायां गण्यते । आरोप्यमाणमाला तु चमत्कारविशेषशालित्वाद्गण्यत एव । अथ कथं श्लिष्टपरंपरिते ‘भुजगाधिपभूमिभृच्छिरोरत्नम्, सकलसुमनोवसन्तम्' इत्यादावेकस्यारोपस्यारोपान्तरहेतुत्वं, यस्मात् श्लेषेण शैलस्य राज्ञश्च विदु-