पृष्ठम्:अलङ्कारमणिहारः.pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
129
रूपकसर‌ः‍‌‌‍ (७)

 अत्र केचित् ‘विद्वन्मानसहंस’ इत्यादौ वर्ण्ये हंसत्वाद्यारोपाच्चित्तादिषु सरस्त्वाद्यारोपस्यार्थात्प्रतीतेरेकदेशविवर्ति रूपकमेवेदमित्याहुः । वस्तुतस्तु श्लिष्टशब्दनिबन्धनाभेदारोपरूपवैचित्र्यनैयत्यात्ततो भिन्नमेवेदमिति दिक् ॥

 एवमेव--

 भद्रश्रीमलयाद्रिं श्रीवत्सविलासदानसुरसुरभिम् । हंसोल्लासनशरदं वरदं वन्दे वृषाचलद्विरदम् ॥

 इत्यत्रापि श्लिष्टपरंपरितं द्रष्टव्यम् । भद्रश्रीः मंगळसंपदेव भद्रश्रीः चन्दनम् । श्रीवत्स एव श्रीयुक्तो वत्सः । हंसाः ज्ञानिन एव मराळाः ॥

 शुद्धपरंपरितं केवलं यथा--

 पवनोदरंभरिगिरेरवनौ लवनाय रिपुकुलवनानाम् । अवनाय च भुवनानां भवनमकार्षिश्श्रिताब्जभुवन हरे ॥ २१५ ॥

 भवनं आविर्भावम् । श्रिताब्जभुवनेत्यत्र भगवति सलिलत्वारोपः श्रितेष्वब्जत्वारोपसमर्थ्यत्वेनाभिमत इति परंपरितम् । मालाश्लेषविरहात्केवलं शुद्धं च ॥

 इदमेव मालारूपं यथा--

 भूकेकिनीपयोदं राकेन्दुं तं रमाकुवलयिन्याः । नाकेशजलजभानुं लोकेशं वन्दिषीय शेषाद्रौ ॥

 अत्र लोकेशे श्रीनिवासे पयोदाद्यनेकारोपस्य भूम्यादिषु

केकिन्याद्यारोपप्रतीक्षत्वान्मालापरंपरितं शुद्धम् ॥

ALANKARA
17