त्वन्तम् । मुक्ताळिसरस्वन्तं स्वान्तं श्रयतान्ममाहिगिरिकान्तम् ॥ २१२ ॥
सकलसुमनसां समस्तविदुषामेव कुसुमानाम् । साधुकदम्बस्य सज्जननिवहस्यैव रमणयिनीपतरोः । मुक्तानां प्रकृतिबन्धवियुक्तानां आळिः पङ्क्तिरेव मौक्तिकावळिः तस्याः । स्वान्तं हृदयं कर्तृ ॥
यथावा--
अनिमिषकुलसलिलनिधिं घनविभवविलासभरतपर्त्ववधिम् । परमहिमताहिमानीधरमरविन्देक्षणं भुवि नमानि ॥ २१३ ॥
अनिमिषकुलं दैवतयूधमेव मीनकुलं तस्य सलिलनिधिम् । घनस्सान्द्रो विभवविलासभर एव जलदवैभवलीलातिशयः तस्य तपर्त्ववधिं ग्रीष्मावसानं वर्षासमयमित्यर्थः । परमहिमता श्रेष्ठमाहात्म्यवत्तेव अतिशयितहिमवत्ता तस्याः हिमानीधरं हिमवन्तं अरविन्देक्षणं भुवि नमानि नमेयम् ।
प्रणम्य कृष्णं सहसा पांसुक्लिष्टे महीतले । |
इत्यादिप्रमाणानुसंधानेन भुवि नमानीत्युक्तिः । नमतेर्लोडुत्तमैकवचनम् । अत्र सुमनसामेव सुमनसां वसन्तमित्यादौ श्लेषमूलकेनारोपेण श्रीनिवासे वसन्तत्वाद्यारोपस्य समर्थनीयतयाऽभिमतस्य बहुधा निबन्धनात् श्लिष्टमालापरंपरितमिदम् ॥