पृष्ठम्:अलङ्कारमणिहारः.pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
124
अलंकारमणिहारे

'एवमादयः’ इति प्रतीकमादाय ‘परंपरितमप्येकदेशविवर्तीत्येवंप्रकाराः' इति विमर्शिनीकृदुक्तिश्च स्वरसतो न संगच्छेत । न संगच्छेऽत च श्लिष्टपरंपरितनिरूपणावसरे ‘विद्वन्मानसहंस' इति पद्यमुदाहृत्य ‘इदं हि एकदेशविवर्त्यपीत्युच्यते’ इति काव्यप्रदीपग्रन्थः, इदं हीति प्रतीकमादाय ‘मूले इदमपीत्यन्वयः । एकपदोपस्थापितयोरन्तःकरणसरोविशेषयोरभेदाध्यवसायेऽपि नैकत्रापरारोपः तस्य भेदेन विषयनिर्देशापेक्षत्वात् । अन्यथा विषयनिगरणात्मिकायामतिशयोक्तावपि तत्प्रसङ्गात् । तस्मादार्थ एवायमारोप इत्येकदेशविर्तित्वमत्रापि युक्तम्' इति प्रभाख्यतद्व्याख्यानं च । तस्मात् अत्र ‘क्ष्मासौविदल्लः' इत्यादिसर्वस्ववाक्यं यथाश्रुतगत्या परंपरितस्याप्येकदेशविवर्तित्वं प्रत्याययतीति स्वीकरणमेव समुचितमित्युक्तावपि न क्षतिः ॥

 नन्वेवं परंपरितस्याप्येकदेशविवर्तित्वाङ्गीकारे--

सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः
कान्तेः कार्मणकर्म नर्मवचसामुल्लासनावासभूः ।
विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया
प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिस्सा प्रिया ॥

इत्यस्य पद्यस्य चित्रमीमांसायां मालानिरवयवरूपकोदाहरणत्वमुक्तमसङ्गतं स्यात् । तत्र ‘सौन्दर्यस्य तरङ्गिणी’ इत्यादौ सौन्दर्यादौ सलिलत्वाद्यारोपणमन्तरा तरङ्गिणीत्वारोपस्यासौन्दर्यादाक्षेपलब्धसलिलरूपारोप्यस्य तरङ्गिणीरूपारोप्येणान्विततया परंपरितत्वस्याव्याहतत्वादिति चेत्सत्यम् । एतदन्येषां ‘कान्तेः कार्मणकर्म' इत्यादीनां मालानिरवयवरूपकोदाहरणतेत्यदोषः । तत्र हि प्रियायां कार्मणकर्मादिमात्रमारोप्यते न तु कान्त्यादौ