पृष्ठम्:अलङ्कारमणिहारः.pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
123
रूपकसर‌ः‍‌‌‍ (७)

कारोप्यभूताया राजमहिष्या अन्वयाभावात् । तथाऽपि परंपरितस्यैकदेशविवर्तित्वं न सर्वस्वकृतोऽभिमतम् । स्वकीयप्राक्तनविभागव्याघातात् । तत्र हि ‘इदं तु निरवयवम्’ इत्यादिना सावयवावान्तरभेदतयैव एकदेशविवर्तिरूपकं गण्यते, न तु परंपरितावान्तरभेदतयाऽपीति । उपदर्शितसर्वस्ववाक्यं तु अत्र पद्ये 'क्ष्मासौविदल्लः' इत्येतदेकदेशविवर्तिरूपकं ‘पर्यङ्कः' इत्यादिपरंपरितमालासमानाधिकरणमपीत्येतदर्थकतया कथंचित्संगमनीयम् । अन्यथा आक्षिप्तरूपकसंपन्नरूपकद्वयमात्रतया तत्र परंपरितरूपकस्वीकारे 'निरीक्ष्य विद्युन्नयनैः' इति पद्ये एकदेशविवर्तिरूपकप्रतिपादनपरसमासोक्तिप्रकरणस्थतद्वाक्यविरोधप्रसङ्गात् । अत एव प्रकाशादिषु प्राक्तनेषु रसगङ्गाधरादिष्वर्वाक्तनेषु चालंकारनिबन्धेषु परंपरितमध्ये एकदेशविवर्तिविधाया अपरिगणनमुपपद्यत इति ॥

 वस्तुतस्तु--'क्ष्मासौविदल्लः' इत्यत्राक्षेपलभ्यराजमहिषीरूपकेण परंपरितरूपकाभ्युपगमेऽपि नास्मदुपदर्शितलक्षणस्य तत्राव्याप्तिप्रसङ्गः । 'क्ष्मासौविदल्लः’ इत्यस्मादपि क्ष्मामहिषीसौविदल्लः इत्येवान्वयबोधस्याक्षेपसहकृतशब्दजन्यस्य स्वीकारेण प्रथमरूपकारोप्यान्वितत्वस्य द्वितीयरूपकारोप्ये निर्बाधात् । आक्षेपलभ्यस्याप्यर्थस्य उपात्तशब्दार्थेन सह शाब्दबोधे भानं जातिशक्त्याद्यभ्युपगन्तृतान्त्रिकसमयसुप्रसिद्धमेवेति ॥

 एवंच-- सर्वस्वकारीयविभागवाक्यस्योपलक्षणत्वमवश्याश्रयणीयम् । अन्यथा तेन परंपरितमात्रे प्रदर्शितस्य श्लिष्टाश्लिष्टविधाद्वयस्य तद्व्याख्यातृविमर्शिनीकारेण सावयवेऽपि प्रदर्शनं 'क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽन्येऽपि भेदा लेशतस्सूचिता एव' इति सर्वस्वकृत एवोक्तिः,