पृष्ठम्:अलङ्कारमणिहारः.pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
117
रूपकसर‌ः‍‌‌‍ (७)

 तद्द्विधा केवलं मालारूपं चेति सतां मतम् ॥

 निरङ्गं निरवयवम् । अङ्गिमात्रस्य अवयविमात्रस्य ॥

 तत्र केवलं निरवयवं यथा--

 वातंधयगिरिजातं स्फीतं धनमखिलशरणमवदातम् । ख्यातं धनपतिगीतं ध्यातं धवळयति हृत्सरोजातम् ॥ २०० ॥

 स्फीतधनत्वेन भगवानध्यवस्यते । हृत्सरोजातं हृदयकमलं धवळयति प्रसादयतीत्यर्थः । अत्र हृत्सरोजातमिति रूपकं सापेक्षरूपकसंघातात्मकताविरहान्निरवयवम् । मालात्वविरहात्केवलम् ॥

 निरवयवं मलारूपकं यथा--

 सौन्दर्यबृन्दकन्दं मुचुकुन्दानन्दचन्दनं वन्दे। वन्दारुकबृन्दारकमन्दारं दन्दशूकशिखरीन्दुम् ॥

 एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम् । अन्योन्यसापेक्षताविरहान्निरवयवम् ॥

 विमर्शिनीकारस्तु - अनेकविषयकानेकपदर्थारोपेऽपीदं निरवयवमालारूपकं श्लिष्टाश्लिष्टभेदेन दृश्यत इत्याह ।

 तत्राश्लिष्टानेकविषयकानेकारोपो यथा--

 नयने नलिने वदनं सदनं लक्ष्म्यास्तव स्मितं त्वमृतम् । गण्डौ दर्पणखण्डौ कुण्डलिवेतण्डशिखरिमार्तण्ड ॥ २०२ ॥