पृष्ठम्:अलङ्कारमणिहारः.pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
113
रूपकसर‌ः‍‌‌‍ (७)

 यत्र समस्तान्यवयवावयविरूपवस्तून्यारोप्यमाणानि शब्दोपात्तानि तत्समस्तवस्तुविषयं सावयवरूपकमित्यर्थः ॥

 यथा--

 हरिहृदयपञ्जरे नवमुक्तामणिहारजालके नद्धम् । श्रीवत्सकीरहेतोर्दाडिमफलमेव कौस्तुभमणीन्द्रः ॥ १९४ ॥

 अत्र संघातात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुगत्या समर्थ्यसमर्थकभावस्यान्योन्यं समानत्वेऽपि कवेर्दाडिमफलरूपकस्यैव समर्थ्यतया विवक्षितत्वात्समर्थकतयोपादानमन्येषामिति प्रतीयते । एवं सति समर्थकरूपकाणां विषयविषयिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्यकौस्तुभदाडिमरूपकस्य विषयविषयिणोः पृथग्विभक्तिश्रवणाद्विधेयतया तदादाय संघातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते । यथा योधसंघातान्तर्गतस्य प्रधानस्य कस्यचिद्योधस्य विजयपराजयाभ्यां योधसंघातो विजितः पराजितश्चेत्युच्यते । न चैवमादौ प्रतीयमानोत्प्रेक्षा शक्या वक्तुम् । अभेदस्य निश्चीयमानत्वात् । सत्यां चोत्प्रेक्षायां संभाव्यमानता स्यात् । अन्यथा ‘मुखं चन्द्रः' इत्यादावपि प्रतीयमानोत्प्रेक्षापत्त्या रूपकप्रळयापत्तेः ॥

 यथा वा--

 सिंहधराधरशेखरसिंहळसंभूतमसितविद्योतम् । श्रीरुचिकनकोपचितं शौरिमहानीलमाद्रिये हृदये॥ १९५ ॥

 ALANKARA
15