पृष्ठम्:अलङ्कारमणिहारः.pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
109
रूपकसर‌ः‍‌‌‍ (७)

मलिनं क्रोधदूषिततया मलीमसं, पक्षे निसर्गतो नीलं मुखं वदनं अग्रभागश्च यस्य स तथोक्तः । गर्जन् तर्जयन् । पक्षे स्तनन् सन् । विषं गरळं जलं च प्रदत्ते । एवमलसः क्रोधमलिनमुखो गर्जन्नप्यन्ततो विषमेव प्रदत्ते न तूपादेयं वस्तु । फणिगिरिपतिपर्जन्यस्तु अमृतं सुधामपि निश्श्रेयसमपि च सुखसुखेनैव अनलसोऽमलिनमुखोऽतर्जयन्नक्लेशेनैवेति भावः । प्रददाति । “अकृछ्रे प्रियसुखयोरन्यतरस्याम्' इति द्विर्वचने कर्मधारयवद्भावात्सुब्लुक् । अत्र प्रसिद्धपर्जन्यापेक्षया भगवत्पर्जन्यस्याधिक्यमुक्तम् ॥

 न्यूनताद्रूप्यरूपकं यथा--

 प्रणमन्ति ये भजन्ति च फणिगिरिकान्तं स्तुवन्ति चाञ्चन्ति । तेऽमी भगवद्भक्ता भूमीजनुषोऽपरे मुक्ताः ॥ १८९ ॥

 अत्र मुक्तेष्वपर इति विशेषणात्प्रसिद्धमुक्तेभ्यो भगवद्भक्तानां भेदाविष्करणाद्भूमीजनितत्वरूपन्यूनताप्रतिपादनाच्च न्यूनताद्रूप्यरूपकम् ॥

 अनुभयताद्रूप्यरूपकं यथा--

 विबुधेभ्योऽमृतवितरणनिपुणमिदं हरिणकिरणजनिशरणम् । फणिधरणिधरशिरोमणिहृदयं जानीमहेऽपरं जलधिम् ॥ १९० ॥

 विबुधेभ्यः देवेभ्यो विद्वद्भ्यश्व अमृतस्य सुधायाः निश्श्रेयसस्य च वितरणे निपुणम् । हरिणकिरणस्य चन्द्रम-