पृष्ठम्:अलङ्कारमणिहारः.pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
108
अलंकारमणिहारे

 ताद्रूप्यरूपकेऽप्येवं त्रैविध्यं सद्भिरूह्यताम् ॥ ३५

 तत्राधिकताद्रूप्यरूपकं यथा--

 परमन्दरक्षोभं न भजति जात्वपि भुजङ्गगिरिनेतुः । स्वान्तसरित्कान्तोऽस्मिन् जयति समुद्रो बुधान्न रञ्जयति ॥ १८७ ॥

 जात्वपि परमं अधिकं दरेण भयेन संक्षोभम् । पक्षे-- परं अतिशयितं मन्दरेण गिरिणा संक्षोभं मथनं भुजङ्गगिरिनेतुः स्वान्तं सरित्कान्तः न भजति, अस्मिन् स्वान्तसरित्कान्ते जयति सति समुद्रः प्रसिद्धस्सिन्धुः बुधान् देवान् विदुषश्च न रञ्जयति अतथाविधत्वादिति भावः । अत्र स्वान्तसरित्कान्त इत्यत्र सरित्कान्तपदं सरित्कान्तकार्यकारित्वमात्रपरं, समुद्रो बुधान्न रञ्जयतीति प्रसिद्धसमुद्राद्भेदस्य विवक्षितत्वात् । तथाच परमन्दरसंक्षोभं न भजतीत्यनेन स्वान्तसरित्कान्तस्योत्कर्षप्रतिपादनात्प्रसिद्धसमुद्रे तद्वैलक्षण्यस्य स्फुटतया आधिक्यं वर्णितमित्यधिकताद्रूप्यरूपकम् ॥

 यथा वा--

 गर्जन्विषं प्रदत्ते पर्जन्यश्शीतको मलिनवक्त्रः । फणिगिरिपतिपर्जन्यः प्रददात्यमृतमपि सुखसुखेनैव ॥ १८८ ॥

 पर्जन्यः शीतकः अलसः शीतं करोतीति शीतकः 'शीतोष्णाभ्यां कारिणि' इति कन् । 'आलस्यश्शीतकोऽलसः’ इत्यमरः । अन्यत्र शीतं कं उदकं यस्य स इति विग्रहः ।