पृष्ठम्:अलङ्कारमणिहारः.pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
99
प्रतीपालंकारसरः (६)

द्धौपम्ये यदुपमेयं तस्यैवोपमानत्वादाधिक्यस्य यच्चोपमानं तस्योपमेयत्वान्न्यूनत्वस्य च प्रत्ययः फलम् । इदमेव चौपम्यस्याविशेषेऽप्युपमालङ्कारादस्य वैलक्षण्ये बीजम् । नन्वेवमौपम्यस्योपमानोपमेयसाधारण्येऽपि यदेकस्याधिक्यमन्यस्य न्यूनत्वं च गम्यत इत्येतत्कुत इति चेदवधेहि--उपमाने हि साधारणधर्मसम्बन्धोऽनूद्य उपमेये विधीयत इति तावत्सर्वसंप्रतिपन्नम् । विध्यनुवादौ च साध्यत्वसिद्धत्वाभ्याम् । ते च क्रमेणोपमेयोपमानयोर्न्यूनत्वाधिक्ये प्रयोजयेते । लोकेऽपि निश्चितराजभावो यथा मान्यते तथा नानिश्चितराजभाव इति व्यक्तमेव । ते च साध्यत्वसिद्धत्वे वक्तृविवक्षाधीने इति नात्र दोषः । अत्र पञ्चविधे प्रतीपे वक्ष्यमाणे आद्येषु त्रिषूपमितिक्रियानिष्पत्तिरस्ति । अन्यत्र तु सा नेति भेदः ॥

 यथा--

 जल्पतु जरद्गवी हिरण्यवर्णां शरण्यदयितततमे । शुचितप्तं यदि तत्स्यात्सुचिरं त्वद्वर्णता भजेतापि ॥ १७४ ॥

 जरद्गवी श्रुतिः जीर्णा गौरित्यपि गम्यते । शुचितप्तं ग्रीष्मे पञ्चाग्निमध्यकृततपः । यद्वा शुचीति भिन्नं पदम् । शुचि शुद्धं तप्तं तपस्वि चेत्यर्थः । अग्नौ पुटपाकेन शोधितमिति तु हृदयम् । अत्र पूर्वार्धोपमागम्यमुपमानताप्रयुक्तं सुवर्णवर्णाधिक्यं तिरस्कृत्य द्वितीयार्धे प्रतीपं श्रीलक्ष्मीवर्णस्योपमानत्वप्रयुक्तमाधिक्यं गमयति । शुचितापं विना प्रतीपमपि दुर्लभम्, उपमा तु स्वप्नेऽपि दूरतोऽपास्तेति जरद्गवी जल्पत्वित्याभ्यां गम्यते । शरण्यदयिततमे इति श्रियस्संबुद्धिः ॥