पृष्ठम्:अलङ्कारमणिहारः.pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
97
उदाहरणालंकारसरः (५)

व । उदधिभवेष्विह कमलामुपाददानोऽत्र माधवस्साक्षी ॥ १७२ ॥

 आदौ तामसहिततां दधदपि वस्तु त्वदाश्रितं स्याच्चेत् । अन्ते रसवद्भविता हरिदयिते तत्र साक्षि तामरसम् ॥ १७३ ॥

 आदौ प्रथमं तामसेभ्यो हिततां दधदपि । पक्षे-- तामेत्याभ्यां वर्णाभ्यां सहिततां दधदित्यर्थः । अन्ते रसवत् ब्रह्मानुभववत् ‘रसो वै सः' इत्यादिश्रुतेः । रसशब्दो ब्रह्मपरः । पक्षे--अन्ते चरमभागे रसाभ्यां रेफसवर्णाभ्यां युक्तमित्यर्थः । अत्र पद्यद्वयेऽपि साक्षिशब्देनावयवावयविभाववचनम् ॥

 इवयथादिशब्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम् । निदर्शनदृष्टान्तादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यभेदश्च विशषः । प्राञ्चस्तु-–"नायमलंकारोऽतिरिक्तः, उपमयैव गतार्थत्वात्। न च सामान्यविशेषयोरसादृश्यानुल्लासात्कथमुपमेति वाच्यम् । ‘निर्विशेष न सामान्यम्’ इति सामान्यस्य यत्किञ्चिद्विशेषं विना प्रकृतत्वायोगात् । तादृशविशेषमादाय विशेषान्तरस्य सादृश्योल्लासे बाधकाभावादिवादिभिरामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्ते:" इत्याहुः ॥

 नन्वेवमुदाहरणालंकाराभ्युपगमे सामान्यस्य विशेषेण समर्थनं नार्थान्तरन्यासभेदश्शक्नुयाद्भवितुम्, अनेनैव चरितार्थत्वादिति वाच्यम् । तत्र इववायथादिशब्दप्रयोगाभावस्यैवेतो वैलक्षण्यात् एवमपि स वाचकाभावादार्थ उदाहरणालंकार एवास्तु न त्वर्थान्तरन्यासभेद इति चेत्, इदमस्त्यनयोर्वैलक्षण्यं--सामान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी हि गतिः । अनुवा

 ALANKARA
13