सामग्री पर जाएँ

पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७] प्रथमं काण्डम्. a मर्दलः पणवोऽन्ये च नर्तकीलाँसिके समे ॥ ८ ॥ विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् || तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥ ९ ॥ ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने || तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १० ॥ अकुंसव कुंभ्रूकुंसश्चेति नर्तकः ॥ स्त्रीवेषघारी पुरुषो नाट्योक्तौ गणिकाज्जुका ॥ ११ ॥ भगिनीपतिरावुत्तो भावो विद्वानथावुकः || जनको युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥ ४३ 8-12 लासिका । " वाच्यलिङ्गत्वात् नर्तको लासकः समाविति पुस्त्वनिर्देशे कर्तव्ये स्त्रीलिङ्गनिर्देशो ङीप्टापोर्विवेकार्थः " द्वे नर्तक्याः ॥ ८ ॥ कर- चरणादिभिर्यद्विलम्बितं नृत्यादिक तत्तत्त्वमित्युच्यते एकम् । यत् द्रुतं शीघ्रं नृत्यादिकं तत् ओघ इत्युच्यते एकम् | यन्मध्यं न विलम्बित नापि द्भुतं तद्धनमित्युच्यते एकम् | कालक्रिययोर्मानं नियमहेतुस्ताल इत्युच्यते एकम् । गीतवाद्यपादादिन्यासानां क्रियाकालयोः साम्यं लय इत्युच्यते एकम् ॥ ९ ॥ ताण्डवं तण्डुना प्रोक्तम् । अण् “ओर्गुणः" । नटनं नाव्यं लास्यं नृत्यं "नृत्त" नर्तनं षट्क नृत्यस्य । तत्र ताण्डवं क्लीबपुंसोः । नृत्यगीतवाद्यमितीदं त्रयं मिलित्वा तौर्यत्रिकमिति नाव्यमिति चोच्यते । “ तूर्ये मुरजादि तत्र भवं तौर्यम् । तौर्योपलक्षितं त्रिकमिति विग्रहः " द्वे ॥ १० ॥ यः स्त्रीवेषधारी नर्तकः पुरुषः तत्र अकुंसः भुकुंसः भूकुंसः भ्रुवोर्भुवा वा सो भाषणं शोभा वा यस्य इति त्रयमित्यर्थः । नाट्योक्तौ नाट्यप्रकरणे । अधिकारोऽयम् । प्रागारात् । अज्जुकादिसंज्ञायाः नाट्यादन्यत्र प्रयोगो नास्तीत्यर्थः । या गणिका सा अज्जुका एकम् ॥ ११ ॥ भगिन्याः पतिः आबुत्त इत्युच्यते “ आवृत्तोऽपि " एकम् । यो विद्वान्स भाव इत्युच्यते । भाव- यतीति भाव इति योगव्युत्पत्त्या नाव्यादन्यत्राप्येतादृशानां प्रयोगे न दोषः । एकम् । जनफस्तु आवुक इत्युच्यते । एकम् । युवराजस्तु कुमार: भर्तृदा - रकः द्वयम् ॥ १२ ॥ राजी । भट्टारकः देनः द्वयं राज्ञः | तस्य राज्ञः सुता Diglized by Google