सामग्री पर जाएँ

पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| 4-7 ४२ सटीकामरकोशस्य [ नाट्यवर्ग: चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् || मृदङ्गा मुरजा भेदास्त्वयालियोर्ध्वस्त्रयः ॥ ५ ॥ स्याद्यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान् || आनकः पटहोऽस्त्री स्यात्कोणो वीणादिवादनम् ॥ ६॥ वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः ।। कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम् ॥ ७॥ वाद्यप्रभेदा डमरुमडुडिण्डिमझर्झराः ॥ इदं ततादिकं चतुर्विधं वाद्यं वादित्रातोद्यनामकम् । वादिनं आतोयं च नाम यस्य तत् । यदाह भरतः “ततं चैवावनद्धं च घनं सुषिरमेव च । चतुर्विमं तु विज्ञेयमातोद्यं लक्षणान्वितम्” इति । मृदङ्गाः सुरजा: “मुरात् वेष्टनाज्जाताः” द्वे मृदङ्गस्य । बहुविधत्वाद्वहुवचनम् । अङ्कयः आलिङ्ग्यः ऊर्ध्वकः । “निर्व- कारमपि " एते त्रयः मृदस्य भेदाः । अङ्क एव निघाय वादनादङ्कचः । आलिङ्ग्य वादनादालिङ्गचः । ऊर्ध्वकृतेन मुखेन वादनादूर्ध्वकः । किं । "हरीतक्याकृतिस्त्वङ्कयो यवमध्यस्तथोर्ध्वकः । आलिजयश्चैव गोपुच्छसमानः परिकीर्तितः” इति ॥ ५ ॥ यशसे य आदौ पटहो वाद्यते स यशःपटहः । स एव ढकेत्युच्यते । द्वे ढकायाः | भेरी “भेरि: " दुन्दुभिः | दुन्दुं इति शब्देन भाति । द्वे दुन्दुभेः । “भेर्यामानकदुन्दुभी" इत्यपि पाठः । आनकः पटहः द्वे पटहस्य । अस्त्रीति पूर्वान्वयि । “पटहो ना समारम्भे आनके पुनपुंसकम्” इति मेदिनी | वीणादि वाद्यते येन तद्धनुराकृति काष्ठ कोण उच्यते । “कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने । एकदेशे गृहादीनामस्त्रे च लगुडेऽपि च" इति मेदिनी ॥ ६ ॥ वीणाया दण्डः प्रवालः एकम् । ककुभः प्रसेवकः द्वे वीणादण्डादघो दारुमयं भाण्ड शब्दगाम्भीर्यार्थ यचर्मणाच्छाद्यते तस्य | वीणाप्रान्तस्थवक्रकाष्ठविशेषस्येत्यन्ये । अस्या वीणायाः कायः तत्रीर- हितो दण्डादिसमुदाय: कोलम्बक इत्युच्यते एकम् । यत्र वीणाप्रान्ते तथ्यो निबध्यन्ते तत् निबन्धनं उपनाह इत्युच्यते एकम् ॥ ७ ॥ डमरुप्रभृतयो वाद्य- विशेषा ज्ञेयाः । तत्र डमरुः कापालिकादीनां वाद्यम् । स एव विपुलो मड्डुः । डिण्डिमः दंवडी इति प्रसिद्धः । झर्झरः झांगड इति प्रसिद्धः | मर्दलो मृदङ्गस- दृशो वाद्यभेदः । पणवोऽप्येकः । अन्ये च हुडकगोमुखादयः सन्ति । नर्तकी Digitized by Google