पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12-16 प्रथमं काण्डम्. ५] ३३ अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः ॥ हरिणः पाण्डुरः पाण्डुरीपत्पाण्डस्तु घूसरः ॥ १३ ॥ कृष्णे नीलासितश्यामकालश्यामलमेचकाः॥ पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥ १४ ॥ लोहितो रोहितो रक्तः शोणः कोकनदच्छविः॥ अव्यक्तरागस्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५ ॥ श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ।। कडारः कपिलः पिङ्गपिशङ्गो कडपिङ्गलौ ॥ १६ ॥ मिश्रशुलखेति विभागः साधुः । शब्दार्णवे तु "श्वेतस्तु समपीतोऽसौ रक्ततर- जपारुचिः। वलक्षस्तु सितःशावः कदलीकुसुमोपमः" । "अर्जुनस्तु सितः कृष्ण- लेशवान् कुमुदच्छविः । पाण्डुस्तु पीतभागाः केतकीधूलिसनिमः" इत्युक्तम् । "हरिणौ पाण्डुसारङ्गौ" इति हैमः। ईषत्पाण्डुः धूसरः । “धूसरस्तु सितः पीतले- शवान् बकुलच्छविः" इति शब्दार्णवः । द्वे ईषद्धवलस्य ॥ १३ ॥ कृष्णः नीलः असितः श्यामः कालः श्यामल: मेचकः । “मेचकः कृष्णनीलः सादतसीपु- पसमिमः" इति शब्दार्णवः । सप्तकं नील्यादिगतवर्णस्य । पीतः गौरः हरि- द्रामः त्रयं पीतस्य । पालाशः "पलाशोऽपि" हरितः हरित् त्रयं शिरीषादिपत्र- गतवर्णख । हरिसान्तः॥ १४ ॥लोहितःरोहितः रक्तः त्रयं रक्तस्य । यः कोकन- दच्छवि रक्तोत्पलामः स शोण इत्येकम् । योऽव्यक्तराग ईपद्रक्तः सोऽरुणः। "अरुणः कृष्णलोहितः" इत्यमरमाला एकम् । यः तमिश्रो रक्तः स पाटल इत्येकम् ॥ १५ ॥ श्यावः कपिशः द्वे धूसरारुणवर्णस्य । कपिर्मर्कटः तद्वदो- स्त्यस्य कपिशः । धूम्रः धूमलः कृष्णलोहितः त्रयं कृष्णमिश्रलोहितवर्णस्य । कडारः कपिला पिक पिशकः कद्रुः पिङ्गलः षर् पिङ्गलवर्णस्य । अयमत्यन्त- गौरवालकस्य केशेषु प्रसिद्धः। "पिङ्गा गोरोचना पाण्डुः" इति कात्यः । शब्दार्णवे तु "सितपीतहरिद्रक्तः कडारस्तृणवहिवत् । अयं तद्रक्तपीताङ्गः कपिलो गोवि- भूषणः । हरितांशेऽधिकेऽसौ तु पिश पन्नधूलिवत् । पिशास्त्वासितावे- शापितो दीपशिखादिषु । पिङ्गलस्तु परच्छायः पिले शुक्लाङ्गखण्डवत्" इत्युक्तम् ॥ १६ ॥ चित्र किरिः “कर्मीरः" कल्माषः शबलः एतः कर्बुरः पदं कर्बुरस्य विचित्रवर्णखेत्यर्थः । शुक्लादयः गुणे गुणमात्रे वर्तमानाः पुंसि । चित्रं तु रूप- Digtrod by Google ५